________________
984
प्रत्यक्षलक्षणविचारनिगमनम
न्याचमारी
__ [सूत्रे 'प्रत्यक्ष पदं यौगिकमपि स्यात् ] अथवा ज्ञानपदस्य सूत्र निर्देशात् योगपक्षोऽप्यस्तु। न चासौ दृश्यमानो निहोतुं युक्तः। योगरूढिस्तु नाम न सातैव विदुषाम्। यत्रापि हि द्वयं दृश्यते तत्रापि शब्दप्रवृत्तौ प्रयोजकमेव भवति ॥
कथं पुनः अक्षं प्रति गतं ज्ञानमिप्यते ? न संयोगित्वेन; अञ्जनादेः प्रत्यक्षप्रसङ्गात् । न समवायित्वेन ; अक्षवर्तिनां रूपादीनां . तथात्वप्रसङ्गात् । न जनकत्वेन; अक्षारंभकाणां परमाणूनामपि ..थाभावप्रसक्तेः। तस्मात जन्यत्वेनैव ज्ञानमक्षं प्रति गतमिति व्याख्येयम् ॥
अव्ययी विव्याख्यानं तु न युक्तम् । प्रत्यक्षः पुरुषः, प्रत्यक्षा स्त्री, इत्यादिव्यवहारदर्शनात् -- इत्यलमतिप्रसङ्गेन ) .
. अर्थपोष्कल्ये संभवति डिस्थादिण्दव वलसाङ्केतिकत्वं न युक्तमित्यत भाह- अथवेति । तर्हि सुखादौ कथं व्यभिचारवारणमित्यत्राह -- झानपदस्यति। दृश्यमानः- प्रतीयमानः। ननु कुत. योगरूढयोर्विकरणदरणं, अस्तु तयोस्समुच्चयेन बोध इत्यत्राह--योगरूढिस्त्विति। एतत्तत्त्वं शब्दप्रकरणे स्पष्टीभविष्यति । द्वयं--योग: रूटिश्च । प्रयोजकमेवेति । अन्यतरदिति शेषः । पङ्कज नकर्तृत्वसाम्यात भेकादिषु पङ्कजपदप्रयोगवारणाय परं रूब्यपेक्षा, न त्वर्थबोधायेति । प्रत इत्यस्य विवरणं गतमिति ॥
प्रत्यक्षप्रसङ्गात्- प्रर क्षत्वप्रसङ्गात् । प्रत्यक्षपदवाच्यत्वमसङ्गादिति वा॥
न युक्तमिति । अत्र-यद्यपि भाष्ये ' अक्षस्याक्षस्य प्रतिविषयं वृत्ति: प्रत्यक्षम्' इति कर्थनादब्ययीभावपक्षः भान्योक्त इति ग्रन्थकृदभिप्रेतीव ; परन्तु वार्तिके, ‘नायं समापः, किन्तु स्वरूपकथनमात्रम् । समासे खलु द्वितीयैव स्यात् , म षष्ठी। भतः प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासो द्रष्टव्यः'' इत्युक्तमत्र स्मरणीयम् । प्रत्यक्षसूत्रे यतः'शब्दाध्याहारः पूर्वमेयोक्तः ॥