________________
मालिकम् २] प्रत्यक्षपदनिर्वचनम्
233 न्द्रियव्यापारानुवृत्तरित्युक्तत्वात् । एतचाम्वयव्यतिरेकाभ्यामव. गम्यते, निमीलितचक्षुषस्तदनुत्पादात् । न च तदानीमन्त:सङ्कल्परूपेणापि शब्दोल्लेखः । उत्पन्ने तु संशये विपर्यये च वाचकस्मरणं भविष्यतीति सम्यग्ज्ञानवत् संशयविपर्ययावपि शब्दोल्लख. शून्यौ संवेद्यते । विशेषस्मृतिस्तु विशेषविषयत्वात् तानेवाक्षिपतु । शब्दस्य किं वर्तते? वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति । सा च न ताव'दुत्पन्नेति॥ . सम्यक्प्रत्ययवत्तस्मात् वाचकोल्लेखवर्जितौ।
अक्ष'व्यापारजौ न स्तः न संशयविपर्ययौ ॥ ६८ ॥ ईशयोः कथमनयोराद्यपदव्युदसनीयता? तस्मात् । सदपाकृतये युक्तं पदद्वयस्याप्युपादानम् ॥ ६९ ॥
• ["प्रत्यक्षं ' इति पदम्याख्यानम् ] एवं लक्षणपदानि । लक्ष्यपदं तु 'प्रत्यक्षम्' इति ज्ञानविशेष रूल्यैव प्रवर्तते; योगस्य व्यभिचारात् । प्रति गतमशं प्रत्यक्षमित्यक्षरार्थः। स चायं सुखादावपि संभवतीति रूढिरेव साधीयसी॥ प्रकारतया भासमाने वस्तुनि इन्द्रियसम्बन्धोऽस्ति । अन्यथा म्याप्तिग्रहणकाले बढेरेन्द्रियिकत्वात् अनुमानेऽपि वढेरैन्द्रियिकत्वं स्यादिति भावः। स्मृतेरनन्तर. मपि कुतः इन्द्रियव्यापारापेक्षेस्यत्र अनुभवं पृच्छेति वदति-एतच्चेति। तदनुत्पादात--संशयविपर्यययोरनुत्पादात् । तयोः प्रकारांशे इन्द्रियसविकर्षाभावेऽपि, विशेष्यांशे अस्स्येव सः। ततश्च प्रत्यभिज्ञावत् तावपि प्रत्यक्षावेवेति म निराससंभवः। सम्यग्नानं-शब्दाननुविद्धप्रमात्मकसविकल्पकज्ञानम् । तानेव--विशेषानेव। एवकारेण शब्दन्यवच्छेदः। अक्षव्यापारजौ न स्त इति न इत्यन्वयः ॥
ज्यभिचारमेवोपपादयति-प्रति गतमिति। इन्द्रियसम्बद्धमित्यर्थः । सम्बन्धश्च जन्यजनकभावः। एवञ्च सुखादीनामपि मामसत्वादतिम्याप्तिः । बायेन्द्रियमात्रविवक्षायामात्मप्रत्यक्षादावग्याप्तिप्रसाः ।।
1 दुपपन्नेति-ख.
व्यापारजन्मानौ तस:-ख.
..'