________________
232
प्रत्यक्षलक्षणघटकदककृत्य
['अव्यपदेश्य' पदेनैव 'व्यवसायात्मक' पदं न चरितार्थम् ]
ननु ! संशयविपर्यययोरपि निर्विकल्पयोरसंभवात् अव्यपदेश्यपदेनैव प्रवरपक्षे प्रतिक्षेपः सिद्धयेत् । पुरोऽवस्थित स्थाण्वादिधर्मिदर्शनमात्रमेव निर्विकल्पक मिन्द्रियव्यापारजम् । अनन्तरन्तु उभयान्यतर' विशेषणस्मरणजन्मनो रुल्लिखित शब्दयोरेव संशय विपर्य.. ययोरुत्पादः । तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात् । अतः पदद्वयमपि तद्व्युदासाय न कर्तव्यम् ॥
[ न्यायमञ्जरी
-
'देव' तावद्वक्तव्यम् । प्रघरपक्षः प्रतिक्षिप्त एव यतः शब्दानुवेधजातमपि प्रत्यक्षमुपपादितम् ॥
[' इन्द्रियार्थसन्निकर्षोत्पन्न' पदेनापि न संशयविपर्ययव्युदाससंभवः ]
ननु ! भवतु प्रवरपक्षः प्रतिक्षिप्तः । सदृशदर्शन निष्ठिते तु नयनव्यापारे, विशेषस्मृते रूर्ध्वमुपजायमानौ संशयविपर्ययौ नेन्द्रियजाविति प्रथमपदेनैव निरस्तौ भवतः - सदसत् - स्मृते रूर्ध्वमपी
निर्विकरूपयो: --- शब्दाननुविद्धयोः । प्रवरः- भाष्यकारः । ' यक्षपादः प्रवरो मुनीनां' इति वार्तिकोक्तेः तथा निर्देशः । असंभवदोषनिरासकतया अध्यपदेश्यपदस्य स्वेन व्याख्यातस्वात् ' प्रवरपक्षे' इत्युक्तम् । अव्यपदेश्यपदेन तयोर्निरासमेवोपपादयति-- पुरोऽवस्थितेत्यादि । उभयान्यतरे ति यथाक्रमं संशयविपर्ययाभिप्रायम् । अव्यपदेश्यपदेन संशयविपर्ययग्युदाससूचनाय - उल्लिखितशब्दयोरिति । उल्लिखित शब्दयोरिस्य प्रमाणमाह-- तत्रेति । उपपादितं - ( पूर्व २०५, २१५ पुटे) : तथा च नानेन संशयव्यावृत्तिः ॥
2 अत्र तदेव स्व
नविन - - यद्यप्यनुपदमेव संशयविपर्यययोरौद्रयिकत्वमुक्तं, तथाऽपि तदेवाक्षिप्यत इति मन्तव्यम् । पूर्वं हि इन्द्रियान्वयव्यतिरेकानुविधानात् ऐन्द्रियकत्वमुक्तम् । इन्द्रिय व्यापारस्तु सदृशदर्शने पर्यवस्यतीत्याक्षेपः । सदृशदर्शन निष्ठिते - सहगदर्शन एवं विश्रान्ते । एवञ्चानन्तरमिन्द्रिय व्यापाराभावात् कथं तयोरिन्द्रियार्थसन्निकर्षं जन्यत्वम् ? न हि संशयविपर्यययोः
' जन्मनो-क