________________
माठिकम् २] व्यवसायात्मकदलप्रयोजनम्
231 केवलमनःकरण इति स्थितः। यस्तु विष्फारिताक्षस्य 'स्थाणुर्वा ? पुरुषो वा ? ' इत्यादिः संपद्यते संशयः तमनिन्द्रियार्थसन्निकर्षजं को नामाचक्षीत!
[अव्यभिचारि पदेनापि न संशयव्युदाससंभवः] ननु! अतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् । एकरूपं च पुगेऽवस्थितनर्थ अनेकरूपतया स्पृशति संशयः-'स्थाणुर्वा ? पुरुषो वा?' इति । सोऽयमतस्मिंस्तथाभावात् विपर्यय एवेति पूर्वपदव्युदस्तत्वात् न पदान्तरव्यवच्छेद्यतामहतीति । नैतदेवम्स्वरूपभेदात् 'कारण मेदाच्च। 'एकमेव विरुद्धमाकारमुल्लिखन् विपर्ययो जायते-स्थाणौ पुरुष इति, पुंसि वा स्थाणुरिति। अनियताकारद्वयोलेखी तु संशयो भवति-स्थाणुर्वा स्यात् ? पुरुषो वेति । सोऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः॥ ___ कारण भेदश्च'-विरुद्धविशेषस्मरणप्रभवो विपर्ययः-शुक्तिकायां सन्निहितायां रजतविशेषान् , मीचिषु सन्नहितेषु सलिलगतविशेशननुस्मरतः विपर्ययो भवति ; उभयविशेषस्मरणजन्मा तु संशय इति-पदान्तरनिरसनीय एवायम् ॥ इति। एवं मानससंशयसत्वेऽपि संशयसामान्यस्य मानसत्वाभावात् इन्द्रियार्थसन्निकर्षोत्पन्नपदेन न व्युदासः ॥ . नन्विदं अतस्मिंस्तदिति ज्ञानं कथं भवेत् । तत्र हि पुरोवर्तिनि स्थाणुत्वं पुरुषत्वं वा वर्तत एवं खल्वित्यत्राह- एकेति। स्थाणुत्वपुरुषत्वान्यतरवत् तदन्यतराभावोऽपि तत्र वर्तत एव, तयोविरुद्वस्वादित्यतस्मिंस्तदिति ज्ञानमेव तदिति । स्वरूपभेदादिति । विपर्ययापेक्षयेति शेषः । एकमेवेति आकारविशेषणम् ॥
पदान्तरेत्यादि। अव्यभिचारिपदेन न मंशयव्युदास इत्यर्थः । एतदुक्तं भवनि। प्रतीतः आकारो यदि धर्मिणि नास्ति, तदा तत् ज्ञानं ग्यमिचरितमित्युच्यते । संशयस्थले तु प्रतीतः एकः भाकारः धर्मिण्यस्त्येवेति संशयः व्यभिचरित इति न वक्तुं शक्यत इति ॥
1 करण-क. 'एवमेव-ख. मेदस्त-स.