________________
230 प्रत्यक्षलक्षणयटकदलकृत्यम्
न्यायमञ्जरी [व्यवसायात्मक'दलप्रयोजनम् दुरात स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपं उपलभमानस्य तयोरन्यतरत्र वर्तमानान् वक्रकोटगदीन् कर'चरणादीन्' वा विशेशनपश्यतः समानधर्मप्रबुद्धसंस्कारतया चोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थाणुर्वा पुरुषो वेति संशयज्ञानमुपजायत । तत् इन्द्रियार्थसन्निकर्षोतानत्वादिविशेषणयुक्ताप न प्रत्यक्षफलम्। अतस्तद्यवच्छेदाय व्यवसायात्मक ग्रहणम् ॥
['इन्द्रियार्थसन्निकर्षोत्पन्न'पदेन न संशयव्युदाससंभव: ननु! मानसत्वात् संशयज्ञानस्य इन्द्रियार्थसन्निकर्षीत्पन्नग्रहणेन निरासः सिद्धयत्येव ; किं पदान्तरेण ? तथा च भाष्यकार:'स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहसुखादिप्रत्यक्षं इच्छा दयश्च मनसो लिङ्गानि' (न्या. भा. १-१-१६) इति वक्ष्यति । मैवम्-स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्य तिरेकानुविधा. यित्वात्। कश्चिद्धि मानसः संशयः समस्त्येव; यथा---- दैशिकस्य ज्योति णकादेः एकदाऽन्यदा चासम्यगादिश्य तृतीय पदे पुनरादिशतः संशयो भवति--किमयमम्मदादेशः संवदेत् ? उत विसंवदेत्?' इति। स भाष्यकृतश्चेतसि
तयोः-स्थाणुपुरुषयोः। उभयवर्तिनोऽपि विशेषाननुस्मरत इत्यनेन भ्रमवैलक्षण्यमुक्तम् ॥
मानसत्वादिति। इन्द्रियेण धर्मिणि गृहीतायां साधारणधर्मयोः स्मरणे च पश्चाजायमानः संशयो मानसिक एव। न हि तत्र वस्तुद्वयेन साकमिन्द्रियसन्निकर्षों वर्तत इत्यर्थः। संशयस्य मानसत्वे संवादमाह- तथा चेति। कार्यात् खलु कारणानुमानमिदम् । तेन च संशयस्य मनःकारणकत्वमुक्तं भवतीत्यर्थः । बाह्यन्द्रियेति । तथा च चाक्षुष एवायं स्थाणुपुरुषसंशय इत्यर्थः । ननु तर्हि मानस: सशय एव नास्ति किम् ? इत्यत्राहकश्चिदिति। दैशिकः-ग्रामीणः। भाष्यमप्येतद्विषयमित्याह - स भाष्यकृत
1 चरणान्-ख.
बक्ष्यते -क.