________________
भलिकम् २]
भ्रमहेतव:
आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे । स्मृतेस्तु कारणं किञ्चित् कदाचित् भवति क्वचित् ॥ ६०॥ क्वचित् सदृशविज्ञानं कामशोकादयः क्वचित् । 'क्वचित्तु' दर्शनाभ्यासः तिमिरं चक्षुपः क्वचित् ॥ ६१ ॥ चिनिद्रा कचिचिन्ता धातूनां विकृतिः क्वचित् । अलक्ष्यमाणे तद्धेतौ अदृष्टं स्मृतिकारणम् ॥ ६२ ॥ बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ते कः । अस्तित्वेऽपि स्मृनौ हेतुमदृष्टुं तस्य मन्यते ॥ ६३ ॥ नूनं नियमसिद्धयर्थं जनकस्यावभासनम् । न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता ॥ ६४ ॥ 'न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् । तेनेदं स्मृत्युपारूढं अवभातीति मन्वते ॥ ६५ ॥ तत्राद्येन पदेनैताः स्वान्तःकरणसं भवाः । निरस्ता भ्रान्तयोऽक्षादिसंसर्गरहितोदयाः ॥ ६६ ॥ 'याः पुनः पीतशङ्खादिमरुनी। दिबुद्धयः । जास्तदासाय सूत्रे पदमिदं कृतम् ॥ ६७ ॥
229
स्मृत्युरूढ इति । एवञ्च पुरोवर्तित्वांशे परं भ्रम इति भाव: । अलक्ष्यमाण इति । तद्धेतौ भ्रमहेतौ अलक्ष्यमाणे- प्रत्यक्षतोऽगृह्यमाणे मष्टं वा स्मृतिकारणं कल्पनीयमित्यर्थः । ननु बालस्य कथं पूर्वोक्तदोषाणां प्रसङ्गः ? कथं वा तस्य भ्रमोत्पत्तिः ? इत्यत्राह - बालस्येति । स्मृताविति । 'आकार: स्मृत्युपारूढः' इत्यत्रोक्तायां भ्रमहेतुभूतायां स्मृतौ इत्यर्थः । नियमसिद्धयर्थ - कार्यकारणयोर्व्याप्तिसिद्धयर्थं अत्रापि जनकस्य - भ्रमहेतोः अवभासनं नूनमङ्गीकर्तव्यम् । अन्यथा कुत्रापि कार्यात् कारणानुमानं न स्यादित्यर्थः । नमु निरधिष्ठान एव वनितादिभ्रमः कुतो न स्यादित्यत्राह - -न चेति । आद्येन पदेन - इन्द्रियार्थसन्निकर्षोत्पपदेन । पदम् । एवञ्च भ्रमः द्विविधः - अम्तर्गताकारे एव वस्तुनि आकारान्तरविषयक इति सर्वोऽपि भ्रमः सालम्बन एवेति ||
1 कचिश्व - ख.
इदं पदं - अव्यभिचारिबहिष्टत्वविषयकः, बहिर्गत