________________
प्रत्यक्षलक्षणघटकदल कृत्यम्
228
न्यायमरी (तत्रैव पक्षान्तरोपपादनम्] अन्यदालम्बनं चान्यत् प्रतिभातीति केचन ।
आलम्बनं दीधितयः तोयं च प्रतिभासते ॥ ५८ ॥ कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यत इति न परमाण्वादौ प्रसक्तिरिति। तदिदं पक्षत्रयमपि उपरिष्टानिपुणतरं निरूप. यिष्यते (३ आह्निके) ॥
तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणामिन्द्रियार्थ सन्निकर्पोत्पन्नपदेन निरसितुमशक्यत्वात् युक्तमव्यभि चारिपदोपादानम्॥
[मानसविभ्रमाः] 'ये तु'-मानसाः विभ्रमाः बाह्येन्द्रियानपेक्षजन्मानः---तेषामिष्यत एवेन्द्रियार्थसन्निकर्षपरेन पर्युदसनमिति न तदर्थमव्यभि-. चारिपदोपादानम्। सद्यथा
घिरहोद्दीपितोद्दामकामाकुलितदृष्टयः । . दूरस्थामपि पश्यन्ति कान्तामन्तिकवर्तिनीम् ॥ ५९ ॥
[मानसविभ्रमहेतवः] - ननु! एवंप्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्यः आकारः प्रतिभाति? उच्यतेनेति । अतो यत् प्रकाशते तदेवालम्बनम् । प्रकृते च सलिलमेव प्रकाशत इति तदेवालम्बनम् । एवमालम्बनत्वे सिद्धे तस्योपस्थितियथाकथञ्चित वक्तव्येति स्मरणमेवोपस्थापकं कल्प्यत इति ॥
कर्तृकरणेति । एवञ्चास्मिन् मते यत् प्रकाशते तदेवालम्बनमिति न नियमः। एवञ्चात्र प्रथमपक्षे मरीचीनामेव विषयत्वं, तोयभानं तु ज्ञानाख्यप्रत्यासत्या। द्वितीयपक्षे तयैव प्रत्यासत्या तोयानामेव विषयत्वम्। तृतीयपक्षे तु विषयत्वं अन्यस्य, भानं चान्यस्येति नायं दोष इति विशेषः॥
निरालम्बनेष्विति --मरीचिजलज्ञानादौ हि पुरोवस्थितासु मरीचिषु जलप्रतिभास इति साधिष्टानकोऽयं भ्रमः। कामुककान्तादर्शनादौ कस्मिन् पुरोवर्तिनि कान्ताप्रतीति:। न हि निरधिष्ठानको भ्रमः सिद्धान्तेऽङ्गीकर्तुं शक्यते । शून्यवादावतारप्रसङ्गात् इति भावः ॥
यत्त-ख.