________________
आह्निकम् २ ]
तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवत् उभयविशेषाः स्मरणपथमवतरन्ति । न च सन्निहितमरीचिविशेषाः स्मरणपथमवतरन्ति । किन्तु पूर्वोपलब्धविरुद्ध सलिलवर्तिनो विशेषः । तत्स्मरणाच्च स्थगितेषु स्त्रविशेषेषु मरीचयः स्वरूपमुपदर्शयितुमशक्नुवन्तः तोयरूपेणावभासन्ते ॥
भ्रमस्वरूपे पक्षभेदा:
[ मतान्तरेण भ्रमोपपादनम् ]
अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः । सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥ ५७ ॥
227
.
यत्र किल ज्ञाने यत् रूपमुपप्लवते, तत् तस्यालम्बनमुच्यते, न 'सन्निहितम् ; भूप्रदेशस्य तदारंभकाणां च परमाणूनां तदालम्बनत्वप्रसङ्गात् । इदं च सलिलावभासि विज्ञानम् । अतस्तदेवास्या - लम्बनम् । तच्च नेह सन्निहितम्' । न चैकान्तासतः खपुष्पादेः ख्यातिरवकल्पत इति देशान्तरादौ विद्यमानमेव सलिलं सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढ महावलम्बनीभवति ॥
तत्रेत्यादि । तरङ्गादीति । तरलत्वादीति यावत् । ननु तर्हि संशयरूपत्वं कुतो न ? इत्यत्राह - न स्थापिवति । अत्र नमः स्मरणपथमवतरन्तीत्यनेनान्वयः । मरीचेस्तथैव कुतो न भानम् ? इत्यत्राह - न चेति । पूर्वोपलब्धं यत् मरीचित्वं, तद्विरुद्वा ये सलिलवर्तिनो विशेषाः सलिलत्वादय: ते न स्मरणपथमवतरन्तीत्यन्वयः । तत्स्मरणात् सलिलत्वादिस्मरणात् । स्थगितेषु - आच्छादितेषु । स्वविशेषेषु - मरीचित्वादिषु ॥
धर्मिणः इत्यस्य सादृश्य पदार्थेनान्वयः । ननु इन्द्रियसन्निकर्षस्तु मरीचे, आलम्बनखं तु पयस इति कथं घटतामित्यत्राह--यत्रेत्यादि । अयं भाव: - इन्द्रियसन्निकर्षमात्रं न ज्ञानविषयताप्रयोजकम् पुरोवर्तिधर्म्यतिरिक्तानां भूप्रदेश- तदुपादानपरमाणूनां च इन्द्रियसन्निकर्षे सत्यपि ज्ञानाविषयत्वात् । ' इदं जलम् ' इत्येव खलु ज्ञानस्याकारः । अत्र ' अयं देशो जलवान्' इति देशस्याप्यालम्बनत्वं कदाचित संभवेत्, परमाणूनां तु तदपि
1 सन्निहितम् - ज्ञ
15*