________________
226
आह्निकम् २] अव्यभिचारिदलप्रयोजनम्
इत्याचार्यमतानीह दर्शितानि यथाऽऽगमम् । यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥ ५३ ॥
'थम्यमिचारि पदप्रयोजनम्] . भन्यमिचारिग्रहणं व्यभिचारिशानव्यवच्छेदार्थम् । यथाग्रीष्मे तपति ललाटन्तपे तपने तन्मरीचिषु चतुरमूषरभुवमभिहस्य समुत्फलितेषु तरङ्गाकारधारिषु यत् 'वारिशानं, सत् अतस्मिस्तदितिग्रहणात् व्यभिचारि भवति। तत् अनेन पदेन व्यवच्छिद्यते, न तत् प्रत्यक्षमिति ॥
तत्र निर्विकल्पकमपि प्रथमनयनसन्निपात ज्ञानमुदक'सविकल्पकचानजनकं उदकग्राह्येव' न यथा, 'तथा तथा गताः कथयन्ति । मरीचिविषयमविकल्पकं ज्ञानं उदकविकल्पकजननात् अप्रमाणमिति। निर्विकल्पावस्थायामविचार यत एव प्रथमो. न्मीलितचक्षुषो झटिति सलिलप्रतिभासात् ॥
चतुरं इति प्रतिफलनक्रियागः विशेषणम्, भभिहननस्य वा। न तत् प्रत्यक्षमिति । प्रत्यक्षप्रमाणस्य खलु लक्षणमुध्यत इत्यर्थः ।।
. ननु मरीचिषु प्रथमाक्षपातजं हि ज्ञानं निर्विकल्परूपं प्रमाणमेवेति : कथमुच्यते तस्य व्यावृत्त्यर्थं भव्यभिचारीतिविशेषणमित्यत्राह-तत्रेति । प्रथमनयनसन्निपातजमपीत्यन्वयः। उदकग्राह्येव नेति। न ह्यदकेन साकं चक्षुषस्सन्निकर्षः, किन्तु मरीचिमिरेवेति हेतुः। ननु तर्हि मरीचिविषयकं तज्ज्ञानं कथमप्रमाणमित्यत्राह-मरीचीत्यादि। अन्यथा हि उदकसन्निकर्षजोदकज्ञानस्य मरीचिसन्निकर्षजोदकज्ञानस्य च वैलक्षण्यमेव दुर्वच स्यादित्याशयः। वस्तुतस्तत्र निर्विकल्पमपि न मरीचिविषयकमित्याहनिर्विकल्पेति । अविचारयत इति प्रथमाक्षसन्निपातजत्वोपपादनाय ।।
बारिधि-ख.
ज-ख.
ग्राह्येव-क.
तथा-क.
साव-ख.
वन-क.
NYAYAMANJARI