________________
224
प्रत्यक्षलक्षणम कदलस्यम्
[ न्यायमञ्चरी
तदक्षजं ज्ञानं 'प्रमाण' फलं घोच्यते । यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति, तदा रूपादिज्ञानविषयग्रहणव्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मतापत्तिकृतां प्रमेयतामेवावलम्बत इति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति ॥
[ मतान्तरेण 'अव्यपदेश्य 'पदप्रयोजनवर्णनम् ]
अपर आह-- सविकल्पकस्य शब्दसङ्कल्पकस्य शब्दसंसर्गसापेक्ष जन्मनः प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्कय तस्यैवशाब्दत दर्शयत्यव्यपदेश्यपदेन सूत्रकारः । प्रत्यक्षमेव तत् ज्ञानम, इन्द्रियास्वयव्यतिरेकानुविधायित्वात्, अव्यपदेश्यं - अगाब्दमित्यर्थः ॥
स्पष्टत्वात् वाचकाभावात् इन्द्रियानुविधानतः । लोकस्य सम्मतत्वाच्च प्रत्यक्षमिदमिष्यते ॥ ४७ ॥ शब्दानुस्मृतिजन्वेऽपि न शाब्दं ज्ञानमीदृशम् । शब्दस्मृतिः सहायः स्यात् इन्द्रियस्य प्रदीपवत् ॥ ४८ ॥ [निर्विकल्पकस्य सूत्रारूढत्वोपपादनम् ]. नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते । नेदानीं सगृहीतं स्यात् प्रत्यक्ष निर्विकल्पकम् ॥ ४९ ॥ 'यस्तु' शब्दानुवेधेन शाब्दत्वं सविकल्पके | कश्चिदाशङ्कते, तस्य प्रतिशब्दोऽयमुच्यते ॥ ५० ॥ यत्र शब्दानुवेधेऽपि प्रत्यक्षं ज्ञानमिष्यते । तत्र तत्स्पर्शशून्यस्य तथ त्वे का विचारणा ॥ ५१ ॥ निर्विकल्पकवत्तस्मात् प्रत्यक्षं सविकल्पकम् । समग्रहीच्च तदिदं पदेनानेन सूत्रकृत् ॥ ५२ ॥
,
I
स्पष्टत्वात् - इतर प्रमाणापेक्षया संशयावकाशविरदत्वात् स्पष्टत्वम् । वाचकाभावात् - वाचकभानरहितत्वात् । यस्त्विति । अस्य ' आशङ्कते इत्यनेनान्वयः । प्रतिशब्दः - प्रत्युत्तरम् । सविकल्पकस्यैव प्रत्यक्षत्वे निर्विकरूपकस्य प्रत्यक्षत्वं कैमुतिक सिद्धमित्याह यत्रेति । यत्र - सविकल्पके। तत्रनिर्विकल्प । तत्स्पर्श:- शब्दभानम् । निर्विकल्पकस्य प्रत्यक्षत्वं कैमुतिकसिद्धमिति तस्य दृष्टान्तत्वाभिधानम् ॥
1 प्रमाणं बा-ख.
' शब्दसं-क. ग.
mar
यत्र - क. यतु-ख.