________________
आदिकम् २] अव्यपदेश्यपदप्रयोजनम
223 ___ सम्बन्याधिगमस्तु नानाप्रमाणकः। तत्र स्वे म्वे विषये सत्तत्प्रमाणं प्रवर्तते। यथाऽऽह भट्टः ‘सम्बन्धः त्रिप्रमाणकः' (श्लो. वा. सम्ब. परि-१४१) इति। तस्मान्नैकस्य शब्दस्य भारः आरोपणीयः। प्रत्यक्षं तु सङ्केतग्रहणकालेऽपि स्वविषय ग्राहकमिति नोभयज'शान'व्यवच्छेदपक्षो निरवद्यः। तस्माद्वरं जरनैयायिककथितशब्दकमतापनशानव्यवच्छेदपक्ष इनि स एवाश्रीयताम्। तत्र सावत् कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति ॥
. [शब्दन्द्रियजज्ञानस्य न पञ्चमप्रमाणत्वम] मनु तत्र नोदिनं ; न तादृशं शानमप्रमाणं, न पञ्चमं प्रमाण मिति ...सत्यम् अयन्तु तपामाशयः। रूपा देविषयग्रहणाभिमुह भेदश्च सविकल्पविषयः । निर्विकल्पस्य वस्तुद्वयविषयकवाभावात्। भतश्च सविकल्पप्रत्यक्षहानौ भेदवादिनो नैयायिकस्य प्राणोच्छेद एवेति ॥
नानाप्रमाणकः -प्रत्यक्षानुमानादिप्रमाणकः। ननु कथमेकस्मिन्नेव विषये एकदेव नानाप्रमाणप्रवृत्तिरित्यत्राह-स्वे स्वे इति । सम्बन्ध इति । मर्थानुवादोऽयम् । वृद्धव्यवहाराच्छक्तिग्रहणोपपादनप्रकरणगतमिदम्। तथा हि-- 'शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया। अन्यथाऽनुपपत्त्या . बुद्यच्छक्ति द्वयाश्रिताम् । अर्थापत्त्याऽव. बुधन्ते संबन्धं निप्रमाणकम्' इति वार्तिकम्। भयमर्थ:--म्युत्पित्सु लः, वाचकं शब्द, तत्प्रयोक्तारं प्रयोजकवृद्ध, तदर्थं च गवादिकं प्रत्यक्षेणेव जानाति ; तय शठई श्रोत्रेण, इतरी चक्षुषेति विशेषः। अनन्तरं स एव म्युत्पित्सुः गवानयनादौ प्रवर्तमानस्य श्रोतु:-प्रयोज्यवृद्धस्य अर्थज्ञानं गवानयनादिव्यापारेणानुमिनोति । ततः अस्य शब्दस्यास्मिन्नर्थे शक्तिमन्तरा अर्थज्ञानमेव न स्यादिस्यापत्त्या वाच्यवाचकभावरूपा शक्तिं गृह्णानि। एवं शक्तिज्ञानस्य प्रत्यक्षअनुमान-अर्थापत्त्यधीनस्वेऽपि अर्थापत्तिरभ्यर्हिततम उपायः। न हि हेतूनां सर्वेषां दण्डचक्रनमणादीनामेकल्पमेव हेतुन्वं संभवति । अत एव 'त्रिप्रमाणकम् ' इत्युक्तम् । अत्र यद्यपि अर्थापत्तिर्नातिरिक्तं प्रमाण, अथापि प्रमाणमेवेति न विरोधः। भारः- शक्तिग्राहकत्वम्। जरनैयायिका:भाष्यकाराः। कृत्ये 'अहे कृत्यतृचश्च' इत्युक्तकृत्यप्रत्यये। यथार्थतरा-शब्दकर्मकत्वादन्वर्थः ॥
तेषां ---भाष्यकाराणाम् ॥
'वानपक्ष-क.