________________
222 प्रत्यक्षलक्षणघटकदलकृत्यम्
न्यायमचरी अन्त्यवणे तु 'गृह्यमाणे स्मर्यमाणे वा किं शब्द'व्यापारो विशिष्यते?
ननु ! व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाण. मिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते । सङ्केतकाले तु संज्ञोपदेशिवृद्धवाक्यं-इति चेत-मैवम्--व्यवहारकालेऽपि संशो. पदेशकं वृद्धवाक्यमेव स्मयते, तदस्मरणे तच्छब्दवाच्यताऽनवगमात्। 'अस्य गौरिति नाम देवदत्तनोपदिष्टमासीत्' इत्येवमनु.. स्मृत्य • गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणज'मेवेदं' ज्ञानम्
तस्मादस्यापि तद्वाक्यं संशाकर्मोपदेशकम् । हेतुतामुग्यातीति शाब्दमेतदपीप्यताम् ॥ ४४॥ एवमस्त्विति चेत् शान्तमेवं सति तपस्विनाम् । नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम् ॥ ४५ ॥ यत्र मार्गान्तरेणापि सङ्केतज्ञानसभवः।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥ ४६॥ नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः। तस्मान्नोभयजस्य शाब्दत्वं ज्ञानस्य वक्तव्यम् ॥
ननु व्यवहारकाले कृत्स्रस्यापि शब्दस्य स्मरणं, प्रकृने तु अन्तिमवर्णोऽनुभूयत एवेत्याशङ्कायामाह-अन्त्यवर्णे विति । किं विशिष्यत इति । न हि अन्तिमवर्णग्रहणमानं बोधजनकं, किं तु तेन कृत्स्नवर्णस्मरगेन पदोपस्थित्या खलु बोधो निर्वाह्यः। तथा च को विशेष इत्याशयः॥
पुनरपि सिद्धान्ती वैलक्षण्यमुपपादयति नन्विति। तदस्मरणेवृद्धवाश्यास्मरगे।
अस्य-प्रत्ययस्य । इष्टापत्तौ बाधकमाह -शान्तमिति । सविकल्पक प्रत्यक्षं शान्तमित्यर्थः । कुत इत्यत्राह - यत्रेत्यादि । वाच्यत्वं हि केवलान्वयि । अतः सविकलर सर्व वाचकावच्छिन्नमेवेति शाब्दमेव स्यात् । स्रविकल्पकप्रत्यक्षहानी च नैयायिकमतमेवोच्छिद्येत । नेयायिकाः खलु भेदवादिनः ।
गृखमाणे वा शह-क. -क. मेव-क.