________________
भाडिकम् २] अव्यपदेश्यपदप्रयोजनम्
221 तच्छन्दवाच्यतानप्तिः विना संशोपदेशिनः । शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥ ४२ ॥ अतः सूत्रकृताऽप्यत्र शब्दातिशयद'शिना'।
व्यधायि तद्यवच्छेदः न तु धर्मोपदेशिना ॥४३॥ तस्मात् उभयजशानव्यवच्छेदार्थमेवेदं पदमिति ॥
. [भाप्योक्तस्य 'अव्यपदेश्य 'पदप्रयोजनस्य समर्थनम्] . अन्ये तु मन्यन्ते-यदि सङ्केतग्रहणकाले भाविनःसंशोपदेशकवचनजनितस्योभय जमानस्य व्यवच्छेदकमिदं वर्ण्यते पदम, तदा तद्यवहार कालेऽपि यत् 'अयं गौः' इति सङ्केतग्रहणकालानुभूतदेवदत्ताधुदीरितसंज्ञोपदेशकववनस्मरणपूर्वकं विज्ञानमुत्पद्यते, तदप्युभयजमेवेति कथमनेन न व्युदस्यते ॥
ननु! तत्र शब्दस्मरणं कारणं, न शब्दः। सङ्केतकालेऽपि शब्दस्मरणमेव कारणम्। न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते। एतदेवोपपादयति-तदिति । संज्ञोपदेशिन:- वृद्धस्य शम्दाद्विना तच्छब्दवाच्यताज्ञप्तिः शब्दात् न, इति-इति हेतोरित्यन्वयः। प्रकर्ष इति। प्रकर्षों हि कालदेशपुरुषविशेषाद्यपेक्षक इत्यर्थः । तथा चायं शाब्द एवेति भावः। न तु धर्मोपदेशिनेति। धर्मो हि न त निर्णेयः । मतस्तत्र यथाशास्त्रज्ञवचनं अङ्गीकार एव युक्तः । ' अयं तु न तादृशः, अतोऽस्ति विचारस्यावकाश इति पूर्व (पु. २०६) उक्तस्योत्तरमिदम् ॥ . नन्वेवं सति, ज्ञानलक्षणप्रत्यासत्या शब्दोपस्थितौ तद्विशिष्टं यत् 'गौरयम्' इत्यादिज्ञानं तदपि शाब्दमेव स्यात् । न अनुपदमुक्तात् वृद्धो. दीरितवाक्यविशेषणकादस्य विशेषः ! अतः तस्यवच्छेदार्थमेवेदं लक्षणमित्युच्यतामित्याशङ्कतां मतमाह-अन्ये विति। तद्यवहारः-सङ्केतव्यवहारः॥
न शब्द इति । प्रकृते तु श्रूयमाण एव शब्दो विशेषणतामभुते, सत्र नु स्मृत इत्यस्ति विशेष इत्याशयः । पुनरप्यवैलक्षण्य मेवोपपादयति...सङ्केतेति । न हि पार्यन्त इति । शब्दानां द्विक्षणावस्थायित्वादित्याशयः ।
नाव-स्त्र.
मवहार-क..