________________
प्रत्यक्षलक्षणघटकदलकुलम्
[न्यायमञ्जरी
एवं पतनाद्यतुमे गुरुत्वादिकारणभेदजनिताः 'गुरुः पाषाणः इत्यादिप्रत्ययाः परोक्षविशेषणं विशेष्यमवलम्बन्ते इत्यलं विस्तरेण ॥ तस्मात् गौरित्यादिज्ञानं न वाचकावच्छिन्नवाव्यविषयम् । अतश्च न शाब्दं तत् । अपि तु सुस्पष्टं प्रत्यक्षमेव । तस्मिंश्च 'लक्ष्ये' सनि लक्षणवैयर्थ्यशङ्काकरणाभावात् नासंभव शेष निराकरणार्थमध्यपदेश्यपदम् ॥
220
[ स्वमतेन 'अग्यपदेश्य 'पदप्रयोजनवर्णनम् ]
किमर्थं तद्ददमस्तु ? उक्तमाचा:- -उभयजज्ञानव्यवच्छेदार्थ
मिति ॥
[ वाचकावच्छिनत्राव्यविषयकं ज्ञानं शाब्दमेव ]
ननु ! तदपि प्रत्यक्षमेवेति ; अनपोह्यमुक्तम् । पुरोवस्थितगवादपदार्थस्वरूपमात्रग्रहण निष्ठितसामर्थ्यमंत्र प्रत्यक्षम् । गोशब्दवाग्यतायां तु संज्ञाकर्मोपदेशी शब्द एव प्रमाणम् ॥
यद्यपि शब्दार्थ सम्बन्धपरिच्छेदे गत्यन्तरमपि संभवति ; तथापि यत्र तात् संज्ञितं निर्दिश्य संज्ञा वृद्वैरुपदिश्यते गोशब्दवाच्योऽयं, पनसशब्दवाच्योऽयमिति तंत्र तद्वाच्यता परिच्छेदे स एव करणम् ॥
•
अत एव च लोकोऽपि शाब्दत्व मिह' मन्यते । शब्दो परचिता पूर्वशा नातिशयतोषितः ॥ ४१ ॥
अतीन्द्रियस्यापि अनुमितस्य विशेषणतया भानं युक्तमित्याह - एवमिति । पक्षविपणमिति बहुवीहिः । परोक्षार्थस्य प्रत्यक्षे भानं तु ज्ञानलक्षणया प्रत्यासत्त्या, मनसा वेति वक्ष्यते ॥
उभयजं - शब्देन्द्रियजं पूर्वमुपपादितं 'अयं पनसः' इति ज्ञानम् ॥ अनपोहा-निह्नोतुमशक्यम् । अनपोह्यत्वं विषयांश एवेत्याह--पुर इति । पदाथस्वरूपेति विशेष्यस्वरूपेति यावत् ॥
i
गत्यन्तरम् - ज्ञानलक्षणप्रत्यासत्तिरूपम्, मन एव वा । सः शब्दः ॥ उभयजज्ञानं यदि न प्रत्यक्षं, तर्हि किंरूपमित्यग्राह - अत इत्यादि । शाब्दत्वे हेतु: - शब्दोपरचितेत्यादि । इदं च लोकस्य विशेषणम् ।
1 क्षिते - ख.
३ मभि- ख.