________________
विकम् २] भव्यपदेश्यपदप्रयोजनम्
219 दण्डीति पुरुषप्रवणैव मतिः। को दण्डी पुरुषः? कः पुरुषो दण्डी ? इति 'सामानाधिकरण्येन' निस्सन्दिग्धस्य पुंस एव प्रतिभासात् । एवं दण्डिनं भोजय, दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे दृश्यते, अपि तु पुंस्येव ॥
[विशिष्टबुद्धेः विशेष्यप्रवणत्वम् ननु ! दण्डी पर्वतमारोहति दण्डेऽपि कार्यान्वयो दृश्यते लोके वेदेऽपि 'दण्डी मैत्रावरुणः प्रैषानन्याह' इति प्रैषानुवचनस्य वचनान्तरतः प्राप्तेः 'दण्ड विधानार्थमेतद्वाक्यं भवति । यथा 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इति श्येनादौ ऋत्विजां प्रकृतिबद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतत् भवति उच्यतेभवत्वेवं, किन्तु, दण्डमवलम्ब्य पुरुषः पर्वतमागेहति, न दण्डो निश्चेतनः। वेदेऽपि दण्डपाणिः पुरुषः प्रेषाननुभाषत, न दण्डः न लोहिता उष्णीपाश्चरन्ति, किन्तु अन्यपदार्थीभृता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणैव मतिः। उभयप्रतिपादने तु दण्डपुरुषाविति स्यात्, न दण्डीति ॥
विशेषणविंशष्यभावस्य नियामकत्वादिति चेत् , सेयं विशेष्यप्रवणा मंतिरुक्तैव भवति, विशेषणस्य विशेषणत्वेनैवोपसर्जनत्वात् । दण्डः अस्य अस्तीति पुरुष एघोच्यते, न दण्डपुरुषो॥ ___ एवं पूर्वापरादिप्रत्ययाः, चिरक्षिप्रादिप्रत्ययाः, इह तन्तुषु पट इत्यादिप्रत्ययाश्च दिक्कालसमवायग्राहिणः। त इमे दिकालसमवायाःसामग्रयन्तर्गतास्सन्तःप्रत्ययातिशयमादधति, न तद्विषयीभवन्ति पटादिद्रव्यवत् ।। . दण्डयेवेति यावत्। पुरुषप्रवणवेति । न तु दण्डप्रवणेत्यर्थः । तत्र . प्रमाणमाह-को दण्डीत्यादि । . . लोहितोष्णीषा इत्यस्य बहुव्रीहित्वात्- अन्यपदार्थीभूता इति । उभयप्रतिपादने-विशेषणविशेष्ययोरुभयोरपि सममाधान्येन प्रतिपादने ॥
दिक्-काल-समवांगाः यथासंख्य उक्तप्रतीतित्रयविषयाः। सामग्रयन्तर्गता इति। तेषां तन्त्र विषयत्वादित्यर्थः । न तद्विषयीभवन्ति -- केवलघटप्रतीत्यपेक्षया 'इह इदानी घटः' इति प्रतीतेलक्षण्यात् ॥
1सामान्याधिकरणस्य-क. दण्डि-ख.