________________
प्रत्यक्षलक्षणषटकदककृत्यम्
218
न्यायमधरी दूर द्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतस्तु विस्परविशेषमवसीयते ॥ ३९ ॥ यथा माघेन वर्णितम् (शिशुपालवधे १-३)
"चयस्त्विषामित्यवधारितं पुरा
ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति
क्रमादमुं नारद इत्यबोधि सः" इति । क्रियान्तराणां वैचित्र्ये यद्वा तद्वाऽस्तु कारणम् । मेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥ ४० ॥
[उपायभेदादेव निर्विकल्पकसविकल्पक_लक्षण्यम् ] . . तदेतदाचार्याः प्रतसमादधते --न विषयभेदादेव प्रतिभासभेदः, किन्तु उपायभेदात् भवत्यव ॥
यश्च चोदितम्-विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासात् अतिशयवचने सङ्कटः पन्था इति-तविदितनैयायिकदर्शनम्यव चोद्यम्। ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेत नो दर्शन, न ज्ञानग्रहण मिति। तत्र यथा पुरुष इति निरतिशयज्ञानमात्रोत्पादे तावन्माविषयप्रत्यक्षता भवति, न तत्र ज्ञान प्रकाशते, अगृह्यमाणेऽपि शाने विषय एवं प्रतिभासते; एवं दण्डीति, शुक्ल वासा इति विशेषणशानाभ्युपायवशात् सातिशय प्रत्ययजनने तदग्रहणे स एव विषयोऽवभासते इति कियानेष सङ्कटः पन्थाः ! तथा च
धर्ममात्रेति। धर्मसामान्येत्यर्थः। ननु छेदनभेदनादिक्रियासु उपायाधीन एवं भेदो दृष्ट इति शङ्कायामाह-क्रियान्तराणामिति ॥
उपायभेदादेव इत्यन्वयः ।।
तत्प्रतिभासेति। अर्थविषयकज्ञानप्रतिभासेत्यर्थः। न ज्ञानेति। ज्ञानं स्वयं गृहीतमेवार्थ प्रत्याययतीति नेत्यर्थः । एवञ्च ज्ञानाप्रतिभाऽपि विषयप्रतिभासाङ्गीकारे न बाधकमित्यर्थः। तदेवोपपादयति-तत्रेति ! निरनिशयेति। दण्डी पुरुष इति ज्ञानापेक्षयेत्यर्थः। तावन्मात्रेति। पुरुषमात्रेत्यर्थः। तद्ग्रहणे-प्रत्ययाग्रहणे । स एव-सातिशय एव-दण्डोपरक्त