________________
आदिकम् २] अध्यादेश्यपदप्रयोजनम्
217 कालवत् समवायोऽपि प्रस्यशः] , एतेन समवायेऽपि प्रत्यक्षत्वं प्रका ितम्।
इहेति तन्तुसम्बद्धपटप्रत्ययदर्शनात् ॥ ३८॥ अयं पट इति प्रत्ययात् इह तन्तुषु पट इति विलक्षण एष प्रत्ययः। तन्तुपटसम्बन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपट प्रत्ययात् विशिष्यतेति ॥
[सामग्रोभेदमात्रान प्रतीतिभेदः] अथ मतं--उपायभेदात् प्रतीतिभेदो भवति; दुराघिदूरदेशव्यवस्थितस्थाण्यादिपदार्थप्रतीनिवत् , संस्कृतासंस्कृताश करणविष'यबोध'वद्वति-तदसांप्रतम्- उपायभेदेऽपि तद्भदासिद्धः । उपायो वुद्धावतिशयमादधाति, न विषये ॥
विषयावगतिसमये च न बुद्धिरवभातीति नैयायिकाः । तदयमतिशयः यदधिकरणः, सा न प्रतिभासते बुद्धिः । यच्च तदानीमवभासते विषयः, तत्रातिशयो नास्ति; दृश्यते चातिशयसंवेदनमिति सङ्कटः पन्थाः। न च दूराविदूरदेशवर्तिनि पदार्थे प्रती तिरुपायभेदात् भिद्यते । साऽसिह विषयभेदादेव भिद्यते ॥
केवल पटप्रत्ययादिति। एष प्रत्यय इत्यनुकर्षः॥
सिद्धान्तिच्छायया शङ्कते-अथ मतमि त। देशस्यापि प्रतीत्युपाय. स्वात्-दूरेत्यादि। भेदासिद्धिमुपपादयति-उपाय इ त । वह्निविषयकमेव प्रत्यक्षमनुमानं च, न हि तत्र विषये विशेषः इत्यर्थः ॥
ननु बुद्ध्यधीनमेव विशेष- अन्ततः प्रत्यक्षत्वपरोक्षत्वादिरूप --विषये . मः-इति चेत्-तत्राह-विषयेनि। न कस्मिन्नेव समये ज्ञानार्थयो: प्रतिभास: संभवी, अननुभवात् । लोके भयं घट इत्यादिप्रतिभासकाले, भयं अर्थस्य भाकारः, अयं ज्ञानस्येति न विविच्यानुभूयते । मतोऽयमन्यतरप्रतिभास एवेति, अर्थप्रतीतिकाले न ज्ञानप्रतीतिः, ज्ञानप्रतीतिकाले च नार्थप्रतीति:, भाकारद्वयाप्रतीतेरिति अभ्युपगन्तम्यमित्यर्थः । इदं सर्वमभ्युपगम्योक्तमित्याहन चेति ॥ ___य-क. 'म-क. काश-क.