________________
216
प्रत्यक्षलक्षणषटकदल कृत्यम
न्यायमवर
मानसत्वं तु यद्यस्य नेष्यते युक्तमेव तत् । तद्भावानुविधायित्वात् बाह्येन्द्रियजमेव तत् ॥ ३५॥ [सविकल्पके शब्दानुवेधाभावे निर्विकल्पकादवलक्षण्यापादनम्
अत्र पुनः प्रवराः प्राहुः--ननु ! एवं गॉरित्यादिगोधेषु वाचकावच्छिन्नवाच्यप्रतिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसन्निपातसमयसमासादितसद्भावनिर्विकल्पावेदनवैलक्षण्यं कथमेषां भवेत्। न हि विषयातिशयमन्तरेण प्रतिभासातिशयो भवितुमर्हति । दण्डीति दण्डविशिष्टः पुरुषः प्रतिभासते, इतरथा न केवलपुरुषप्रतीतेरेषा प्रतीतिविशिष्यत। उभयप्रतिभासेऽपि न दण्डपुरुषाविति प्रती'तेः'। विशेषणविशेष्यभावस्य नियामकत्वात् ॥
पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि। दिकालादिविशिष्टोऽर्थः स्फुरत्यतिशयग्रहात् ॥३६॥ . प्रत्यक्षः किं स कालादिः ? प्रतीतिं पृच्छ, किं मया?
गृह्यते तद्विशिष्टोऽर्थः, स च नेत्येतदद्भुतम् ॥ ३७॥ भृगुः'। मधुग्रहणलोभात् अधस्स्थितं महागर्तमपि न जानासीत्युपहासः । तद्भावः-बाधेन्द्रियसद्भावः॥
सर्वप्रकारं इति क्रियाविशेषणम्। विषयातिशयः--विषयवैलक्षण्यम् । एषा-दण्डविशिष्टपुरुषविषयिणी । म विशिष्यतेत्यन्वयः । दण्डपुरुषोभयविषयत्वमेव प्रत्येकविषयकप्रतीतेलक्षण्यमित्यपि न युक्तमित्याह- उभयेति । दण्डपुरुषाविति प्रतीतेः दण्डीति प्रतीनि विशिष्यतेत्यन्वयः । किं तर्हि तत्र नियामकमित्यत्राह-विशेषणेत्यादि ।।
पूर्वापरशब्दो दैशिकपरत्वापास्वपरौ। चिरक्षिप्रशम्मी कालिकपरत्वापरत्वपरा। ऋमः -- कारणकायें। दिकालममवायानां यथासंख्य निदर्शनम् । एतादृशप्रत्ययेवपि अन्ततः तत्तकालादीनां वा विशेषणतया भानादस्त्येव विषयलक्षण्यमिति। मयेति । पृष्टेनेति शेषः। कालादिविशिष्टोऽर्थः गृह्यते, स तु कालादिः न गृह्यत इत्येतदत्यद्भुतम्। विशेषणाग्रहणे कथं तद्विशिष्टबुद्धिः स्यादित्याशयः। दिकालयोः प्रत्यक्षत्वं वक्ष्यति अनुमानपरीक्षायाम् ॥
। यत्तस्य-ख.
'ध्यते-ख.
ति:-क.