________________
भाडिकम् २]
मध्यपदेश्यपदप्रयोजनम्
न चास्ति वस्तुनो धर्मो 'वाच्यता' नाम कश्चन । यदि स्यात्, निर्विकल्पेऽपि प्रतिभासेत रूपवत् ॥ ३१ ॥ अर्थासंस्पर्शिनः शब्दान् कथयन् दुष्टसौगतः । प्रत्यक्षात्रेण भेत्तव्यः स कथं हन्यते स्वया ॥ ३२ ॥ प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ? तेषां यद्विषये वृत्तिः तद्धि शाब्दीकृतं त्वया ॥ ३३ ॥
[सर्वत्र वाचकभानाङ्गीकारे शब्दविवर्तवादावतारः स्यात् ]
अपि च विषयभेदेन प्रतिभासमेदो भवतीति दुराशया शब्द विशिमर्थ निर्विकल्पात् सविकल्पस्य विषयमधिकं पश्यति भवान् ! अनेनैव च वर्त्मनाऽवतरन् परं शब्दाभ्यासं न पश्यतीति कोऽयं व्यामोहः १ स त्वं वचनीयोऽसि संवृत्तः दुर्बुद्धे ! प्रपातं नैव पश्यसि " इति ॥
(6
'मधु पश्यसि
तस्मात् गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् । . शब्दस्मरण सापेक्षचक्षुरिन्द्रियनिर्मितम् ॥ ३४ ॥
प्रतिबन्दी युक्तेतिशङ्कां परिहरति न चेत्यादिना । रूपवत् वस्तुस्वरूपवत् । अथवा, विशिष्टबुद्धिं प्रति विशेषगज्ञानस्य कारणत्वात् प्राथमिक निर्विकल्प के नीलरूपादिग्रहणानन्तरमेव 'नीलो घटः ' इति प्रतीत्या, रूपपदं नीलादिपरं वा । अथ शब्दानुविद्धसर्व प्रत्ययवादे बाधकमाह - अर्थेति । अर्थशून्यस्यापि शशशृङ्गादिशब्दस्य दर्शनात, सर्वोऽपि शब्दः तथा कुतो न स्यात् इति वादी बौद्ध: - शब्द विनाऽपि घटाद्यर्थानां प्रत्यक्षसिद्धत्वात् अर्थाः नापलपितुं शक्याः इति खलु निप्राह्यः । एवञ्च प्रत्यक्ष सिद्धं कञ्चनार्थ प्रसाध्य तत्र शब्दप्रवृत्तिरूपवर्णनीया प्रत्यक्षस्यापि भवता शाब्दत्वं यद्यङ्गीक्रियते, तर्हि शब्दप्रतीतिरेवार्थ प्रतीतिर्जातेति शब्दातिरिक्तार्थ सद्भावे भवता प्रमाणं दुरुपदं स्यात् ॥
1
215
अनेनैवेति । यदि सविकल्पकं सर्वमपि वाक्यपदीयो दिशा शब्दाध्यासप्रसङ्ग । त्यर्थः ।
' योग्यता - क.
' यः-क.
शब्दानुविद्धमेव स तथैव प्रपात:--' प्रपातस्तु तटो