________________
214
प्रत्यक्षलक्षणघटक दल कृत्यम्
[ न्यायमभरी
[' गौरवम्' इत्यादिज्ञानानां शाब्दत्वासंभवः ]
अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम् ? न चागृहीतसम्बन्धः शब्दो भवति वाचकः ॥ २५ ॥ निर्विकल्पक विज्ञानविषये न च तद्गुहः । शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम् ॥ २६ ॥ सम्बन्धः शक्यते बोद्धुं न च मानान्तराद्विना । शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयः ॥ २७ ॥ न च शब्दोपरक्तेऽर्थे सम्बन्धं बुद्धयते जनः । गोशब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ॥ २८ ॥
वाच्यस्य हि गवादेः गोशब्दविशेषितस्य वाच्यत्वात् वाच्योऽर्थ : इव गोशब्दोऽपि वाच्यतामवलम्बते ॥
यदि च स्वानुरागेण वाचकात् वाच्यवेदनम् । लिङ्गादपि भवेत् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥ २९ ॥
अथ धूमान्वितत्येन न वह्निरवगम्यते । इहापि शब्दयोगेन गवादिनैव गम्यते ॥ ३० ॥
सम्बन्धः - शक्तिः । निर्विकल्पेत्यादि । भयं भावः – सविकल्पकः सर्वोऽपि हि भवतां शब्दानुविद्ध एव । तत्र शब्दस्य शक्तिग्रहपां न निर्विकल्पकेन, तस्य बालमूकादिविज्ञानसदृशत्वात् । नापि सविकल्पकान्तरेण, अनवस्थानात् । नापि तंनैत्र, आत्माश्रयात् । नापि वाक्यादिना सम्बन्धबोधः, सम्बन्धज्ञाने जाते वाक्यप्रयोगः, वाक्यप्रयोगे सति सम्बन्धज्ञानमित्यन्योन्याश्रयात् । अत: ' गौरयं' इत्यादिः न शाब्दप्रत्यय इति । अनुभवविरोधश्च; वाच्यस्य – अर्थस्य हि गोशब्दविशेषितस्यैव भानमिति गोशब्दविशिष्टस्य गोशब्दवाच्यत्वे विशेषणस्य गोशब्दस्यापि गोशब्दवाच्यत्वप्रसङ्ग इति ॥
यदि चेत्यादि । वाचकात् - शब्दात् वाच्यस्य वेदनं - बोधनं स्वानुरागेण - स्वोपरकत्वेन - स्वावच्छिन्नत्वेनैव यदि इत्यन्वयः । शब्दः स्वावच्छिन्नमेवार्थ बोधयेद्यदीति शङ्कार्थः । प्रतिबन्धा समाधत्ते - लिङ्गान्दपीति । शङ्कते -- अथेति । समाधत्ते - इहापीति । ननु वाध्यत्वं हि वस्तुधर्मः, वस्तुनो वाय्यत्वात् । अतः वस्तुनो भाने तद्धर्मस्यापि भानं युक्तमिति नेयं,