________________
माडिकम् २] अम्यपदेश्यपदप्रयोजनम्
213 असन्निहितमप्यम्बु किं या मवति गोचरः ॥ २०॥ ननु ! एकेन्द्रियवादः शत् चक्षुषा शब्दवेदने। अत्रापि सर्वबोधः स्यात् असनिहितवेदने ॥ २१ ॥
[प्रत्यक्षं इन्द्रियासनिकृष्टवस्तुविषयकमपि भवति] ननु च ! मरीविजलज्ञान भ्रान्तमिति 'कथ'मिह दृष्टान्तीक्रियते ।
कथमस्य भ्रान्तत्वम् ? किमनिन्द्रियजत्वात् ? उत व्यभिचारित्वात् ? तत्रानिन्द्रियजत्वेनास्य भ्रान्ततायां इन्द्रियार्थसन्निकर्षोन्पन्नपदेनैव निरासात् अव्यभिचारिपदमनुपादेयमिति । तदुपादानात् व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियज. मसन्निहितसलिलज्ञानमभ्युपगन्तव्यम् ॥
यथा चाविषये तस्मिन् नारे नयनजामतिः। तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ? ॥ २२ ॥ यथा च तव कालादि नीरूपमपि चाक्षपम् ।
तथा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः १ ॥ २३ ॥ एवं हि इन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति ।
ननु! चाक्षुषतां शब्दे न जीवन् वक्तुमुत्सहे।
त्यजनं याचकोपेतवाच्यावगमदुर्ग्रहम् ॥ २४ ॥ सनिकृष्टमेव भासत इति वक्तव्यम् । तच्च मरीचिषु शब्दे च समानम् । अत: शानलक्षणाप्रत्यासत्त्यैवोभयमपि निर्वाह्ममिति न पर्यनुयोगावकाश इति समाधत्ते -असन्निहितमित्यादिना ॥
- अविषये-इन्द्रियासन्निकृष्टे। तस्मिन् नीरे -मरीचिकाजले । कालादीति । इदानी घट इत्यादाविति शेषः । इन्द्रियेत्यादि । इन्द्रियाभावेऽपि जायमानत्वं न प्रत्यक्षत्वबाधकम् । विशेष्येन्द्रियसनिकगर प्रत्यक्षस्वनिर्वाहात् , प्रत्यमिज्ञावदिति । एवञ्च भ्रान्तिज्ञानस्य, इन्द्रिया. सनिकृष्टभानांशमाने प्रकृतोदाहरणमिति भावः। 'प्रसभमुच्यते' इति स्वोकि सत्यापयति-नम्विति । समाधत्ते-स्यजेति। दुर्ग्रहः-दुराग्रहः ।