________________
212 प्रत्यक्षलक्षणघटकदलकृत्यम्
(न्यायमजरी अपि च गौरित्यादिक्षानं इन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं तत्कथं शाब्दमित्युच्यते ॥
शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् । तदेव यदि ते शाब्दं अहो नैयायिको भवान् ! ॥ १६ ॥
ऐन्द्रियिकप्रत्यक्षेऽपि शब्दभानसंभव:] ननु ! शब्दावच्छिन्नमर्थ न चक्षुःश्रोत्रयोः अन्यतरदपि करणं प्रहीतुमलमित्युक्तम्। भोःसाधो! चक्षुरेवैनं ग्रहीष्यतीति कथं न श्रूषे ?
ननु ! नाविषये युक्तमिन्द्रियस्य प्रवर्तनम। .. सेन शब्दविशिष्टाक्षानं नेन्द्रियजं वे ॥१७॥ मरीचिषु जलज्ञानं कथमिन्द्रियजं तव? तत्रापि हि न तोयेन सन्निकर्षोऽस्ति चक्षुषः ॥१८॥ ननु ! च स्मृत्युपारूढं उदकं तत्र गृह्यते । 'इहापि' स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ! ॥ १९ ॥
ननु ! शब्दोन नेत्रस्य कदाचिदपि गोचरः । प्रसभमुच्यते इत्यन्वयः । शब्दस्मरणसापेक्षमिन्द्रियं यस्योत्पादक मित्यन्वयः। नैयायिक इति। विचारचर इति यावत्। अथवा एकदेशिभिः पूर्व ‘गौरित्यादिज्ञानानां शाब्दरवेऽपि' इत्यनेन शब्दानुवेधस्य कुत्रचिदङ्गीकारादेकदेशी वा नैयायिकः ।
पूर्व 'न हीन्द्रियकरणकनिदं' इत्यादिनोक्तमाशय समाधत्तेनन्वित्यादिना ॥ ___अविषये-स्वाविषये-स्वेन गृहीतुमशक्य इति यावत् । विशेष्य. विशेषणयोरुभयोरपि इन्द्रियेण, तत्रापि एकेनैव ग्रहणमिति नायं नियम इति स्फुटयितुं सिद्धान्ती पृच्छति-मरीचिष्विति। पूर्वपक्षी समाधत्ते-- नन्विति । ममापि तथैवेत्याह-तत्रापीति। स्मृत्युपारूढं-- स्मृत्युपस्थापितम् । कदाचिदपीति । मरीचिर्हि चक्षुर्योग्यः, शब्दस्तु न तथेत्यस्ति वैषम्यमित्यर्थः । इदं वैषम्यमप्रयोजकं, चक्षुर्योग्यमपि सर्व सर्वत्र न हि भासते, तत्र असतोऽपि घटस्य तत्र भानप्रसङ्गात् । अत: इन्द्रिय
'तत्रापि-क.