________________
आह्निकम् २] अभ्यपदेश्यपदप्रयोजनम
211 यत्रासौ करणं, न तत्र कर्म ; यत्र वा कर्म, न तत्र करणमिति । घटादिविषयः मितिजन्मनि करणमेव तरणिप्रकाशः, न कर्म; तद्हणकाले तु कर्मवासी, न करणम् ॥
किं तर्हि तत्र करणमिति चेत् , केवलमेव चक्षुरिति घूमः । आलोकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात् कथमेवमिति चेत् , अपर्यनुयोज्या हि वस्तुशक्तिः। घटादिग्रहणे चक्षुरुद्योत. मपेक्षते, नोद्योतग्रहण इति कमनुयुञ्जनहे। सोऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथम गृहीतः चिरमवतिष्ठमानः तदिन्द्रियग्राह्य एव' विषये गृह्यमाणे करणतामुपयातीति युक्तम् ॥
शब्दस्तु क्षणिकः श्रोत्रन्द्रियग्राह्यः तदितरपरिच्छेद्य विषये तदवगमक्रियायां करणीभूय, भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत् । शब्दोहि धृमादिवदुपाय एव, नोपेयः । स उपायत्वात् प्रथमं गृह्यतां नाम ; नोपेयग्रहणकाले पुनर्ग्रहणमर्हति--- धूमवदेवेति । एवं स्मर्यमाणोऽपि शब्दो यत्रार्थप्रतीतिकारणं तत्रापि प्रथमं शब्दस्मरणं, ततः शब्दार्थसम्प्रत्ययो भवति । न तरां तत्रार्थप्रतीतिवेलायां शब्दग्रहणं संभाव्यते। तस्मात् नास्ति वाचकविशेषितघाच्यप्रतिभासः॥
सन्निप्रकाशो हि स्वप्रत्यक्षे स्वयमेव हेतुः, एवञ्च स्वस्य कर्मत्वं करणस्वं च 'सिद्धमेवेति । क्रियाभेदमुपपादयति- यत्रेत्यादि। तद्हणकाले-प्रकाशग्रहणकाले। घटादिग्रहणकाले तु करणमेवेत्यर्थः ॥
तत्र-प्रकाशग्रहणे । केवलं-प्रकाशनिरपेक्षम् । कथमेवं--घटादयो हि प्रकाशसापेक्षेणेन्द्रियेण गृह्यन्ते, प्रकाशस्तु प्रकाशनिरपेक्षेणैवेन्द्रियेण गृह्यत इति कथमित्यर्थः । नन्वथाऽपि स्वग्रहणकाले कर्मणः प्रकाशस्य घटादिग्रहणं प्रति वा कथं करणत्वम? घरग्रहणकाल एव प्रकाशग्रहणस्यावश्यकस्वात। एवञ्च प्रकाशघटयोः एकदैव ग्रहणेन प्रकाशस्य तदैव कर्मस्वं करणत्वं चावर्जनीयमिति शङ्कां, कालभेदन क्रियाभेदमुपपादयन्नपाकरोति-प्रथमगृहीत इत्यादि ।
शब्द तु न तथा कालभेदेन क्रियाभेदोपपादनं संभवतीत्याह-शब्दस्तु क्षणिक इति ॥
। एक-व. दे-ख.