________________
210
प्रत्यक्षरूभणषटकदलकृत्यम् न्यायमच तासामेरूपत्वात् । न च निर्विकल्पकसमये यत्किञ्चिदिदमित्यादिसामान्य शब्दोलखः कोऽपि' केश्चिदनुभूयते। तस्मात् गौरित्यादिज्ञानानां शादत्वेऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य 'सद्भावात् न व्यर्थ लक्षणमित्येवमसंभवदोष निराकरणार्थमव्यपदेश्यपदमिति ॥
गौरिस्यादिज्ञानानां न शाग्दत्वम्] तदेतदाचार्या न क्षमन्ते। न गौरित्यादिज्ञान मिन्द्रियार्थसन्निकर्पोत्पन्नमपि इदं शामिति वक्तुं युक्तम्। न चात्र शब्दावच्छिन्नार्थः प्रकाशते, तथाविधार्थग्रहणे कारणाभावात् । विशेष्यार्थप्रमितो तावत् शब्दः करणम्। विशेषणी भूतस्य तु शब्दस्य ग्रहणे किं करणमिति निरूप्यतार। न थोत्रम्, विरस्यव्यापारासंवेदनात् । सम्बन्धग्रहणादुर्घ च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रं करणमाशङ्कितुमपि न युक्तम्। नापि मानः बाह्यकरणनिरपेक्षं बाह्य विषये धियमाधातुमलम् , अन्धाधभावप्रसङ्गात् ॥
ननु शब्द एव करणमित्युक्तम्, तत् किम्फ्स्क रणाशङ्कनेन ? मैवम - एकस्य कारकस्य एकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः। सवितप्रकाशयत् इति चेत् , न, क्रिया मेदात् ।
मन्तराऽपि । एवंरूपत्वात्-- प्रकाशरूरूपत्वात् । 'अनुल्लिखितशब्दकेष्वपि' इत्युक्त प्रतिवक्ति --न चेति । तथाविधस्य-- शब्दाननुविद्धस्य प्रत्यक्षस्य ॥
'गौरित्यादिज्ञानानां शाग्दत्वात ' इत्युक्तिरेवायुक्ततिवादिनो मतमाह--- तदेतदिति। न युक्तं इत्यन्वयः। दिरम्येति। विशेष्यग्रहणाय प्रवृत्तस्य इन्द्रियान्तग्व्यापारस्य विच्छित्ति विना श्रोत्रेन्द्रियव्यापारो न हि भवेत, विच्छित्तिस्तु नानुभूयत इत्यर्थः। आशङ्कितुमपीति। शब्दमरणे सर्वथा श्रोत्रानपेक्षणादित्यर्थः। अन्धादीति । विनैव चक्षुः मनसेव रूपादिग्रहणसंभवादिति हेतुः ॥
कर्मकरणभावेत्यादि। शब्दो हि प्रतीतौ विशेषणतया भासते इति कर्मस्व सिद्धम् , तर्हि तस्यैव करणस्वं' कथमित्यर्थः । सवित्रिति। सूर्य
शब्दो र कश्चित-क. भा-क. पा-ख. 'ग-ख.