SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भाहिकम् २] অ বসযজন 209 सम्बन्धाभिधानं भावप्रत्ययेन' (हरिटीका) इत्यभियुक्तस्मरणात् । संज्ञा च शब्दः । सोऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति ॥ न च शब्दानुसन्धानरहितः कश्चित् प्रत्ययो दृश्यते , अनुल्लिखित'शब्दकेष्वपि' प्रत्ययेप्वन्ततः सामान्यशब्दसमुन्मेषसंभपात्, तदुल्लखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादात् । तथाऽऽह भर्तृहरि: न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव जानं सर्व शब्देन गृह्यते ॥' (वाक्यपदीय--1-24) इति। तस्मात् प्रत्यक्षस्य 'लक्ष्यस्याभावात् कस्येदं लक्षणमुपकान्तमिति असंभवदोषमाशङ्कयाह सूत्रकारः-अव्यपदेश्यमिति ॥ ___ - [भव्यपदेश्यपदेन शब्दानुवेधपक्षनिरासप्रकार:] यदिदं अविदितपदपदार्थसम्बन्धस्य ज्ञानमुत्पद्यते, विदितसम्बन्धस्यापि वा यत् प्रथमाक्षसन्निपातसमय एव ज्ञानमनुल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते, तत् अशब्दम--अशब्दावच्छिन्नविषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षककरणमविकल्पं प्रत्यक्षम्। न च शब्दकृता बुद्धीनां प्रका'शस्वभावता', स्वत एव ___ ननु भज्ञातवाचकपदानां बालानामपि घटादिप्रत्यक्षं जायत एव । तत् कथं सर्वत्र शब्दानुवेध: ? इत्यत्राह-न चेत्यादि । सामान्यति । मन्तत: वस्त्वादिशब्दानां भानादित्यर्थः। ननु वस्त्वादिपदमप्यजानानां स्तनन्धयाना, पश्वादीनां च प्रत्यक्षे का गतिरिति चेत् , तत्रापि सूक्ष्मः शब्दः भायात् . कामम् । अथवा तेषां भ्रमादीनामिव लक्ष्यतैव मा भूत् । परीक्षकप्रत्यक्षस्यैव लक्ष्यत्वात् । अधिकमन्यत्र ॥ अविदितपदपदार्थसम्बन्धस्येति । स्तनन्धयादेरित्यर्थः। पूर्वोक्तदिशा परीक्षकाणां प्रत्यक्षमेव लक्ष्यभूतमित्यङ्गीकारेऽप्याह-विदितसम्बन्ध. स्थापीति । अशब्दावच्छिन्नविषयं-शब्दानवच्छिन्नवस्तुविषयकम् । अत एव–इन्द्रियार्थसन्निकर्षेककरणमिति। स्वत एव-शब्दानुवेध शम्देष्वपि-क. गर्म विना-क. सदा-ख. 'ता-क. NYAYAMANJARI 14
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy