________________
208
प्रत्यक्षलक्षणघटकद लकृत्यम्
[न्यायमञ्जरी
मानस मेवैकं प्रमाणं स्यादिति । अस्ति चात्र शब्द एव करणम् । स हि सहस्रकिरणवदात्मानं च विषयं च प्रकाशयति' इति । तस्मादिन्द्रियविषयेऽपि गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवेत्यवचार्यते ॥
[अतीतोऽपि शब्दः ज्ञानगोचरो भवेदेव ]
ननु ! सङ्केतावगमममये गौरित्यादिशब्दः श्रुत आसीत् । स इदानीन्त इति कथं तत्कृत एष प्रत्ययः स्यात् - उच्यते'तानी' मश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्यय हेतुत्वात् ॥ तच्छ्रुतावपि किं सर्वे वर्णाः प्रत्यक्षगोचराः ।
विशेषः कोऽन्त्यवर्णेन गृहीतेन स्मृतेन वा ॥ १५ ॥
तदेवं स्मृतिविषयीकृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः । 'यथा परोक्षेऽपि शब्द उच्चरित आत्मानं प्रकाशयति, अर्थ च ; तथा प्रत्यक्षे विषये स एव स्मर्यमाणः आत्मानमर्थं च प्रकाशयतीति : वाचकावच्छिन्नवाच्य प्रतिभासश्चैवंविधासु बुद्धिषु नूनमेषितव्यः । यथाSSह 'भट्टः ' - 'संज्ञित्वं केवलं परम्' इति ॥
भावप्रत्ययः
संज्ञित्वमिति मत्वर्थीय' प्रत्ययान्तादुत्पन्नः संबन्धमाचष्टे। संज्ञासंज्ञिसंबन्धः संशित्वमिति । ' कृत्तद्धितसमासेषु
स्वाङ्गीकारे । ननु विशेष्यांशे इन्द्रियस्यापेक्षणात् कथं इतीत्यत्राह - स हीति । एतदुक्तं भवति । शब्दो हि श्रूयमाण: अर्थमप्युपस्थापयेदेव | न तथा चक्षुः अर्थेन साकं शब्दमुपस्थापयेत् । एवञ्च शब्देनैव विषयभानस्यापि निर्वाहे माsस्त्विन्द्रियापेक्षा | शब्दविवर्ता एव
शदे-ख.
इति ॥
तत्कृतः शब्दजन्यः । स्मृतेन शब्देन ज्ञानजनने मानस मेवेदं संवृत्तमित्यत्राइ – तच्छ्रुतावपीत्यादि । अयमर्थः - शब्दा हि द्विक्षणास्थायिन: । अन्तिमवर्णश्रवणकाले पूर्वपूर्ववर्णा नष्टा एव । एवञ्च नष्टानां वर्णानां स्मरणादेव बोधः सर्वत्र अनेकवर्णकपदस्थले वाच्य इति नायं दोष इति । परोक्षेऽपीति । विषय इति शेषः ॥
2 इदानी क.
शब्द एव
परोक्षोऽपि क..
,
“ 'वृद्ध:- ख. 'प्रत्ययादु-क.