________________
आह्निकम् २] अन्यपदेश्यपदप्रयोजनम्
207 लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं नाम न किञ्चिदस्ति। गौरित्या दि'झानानां शब्दाच्छिन्नवाच्यविषयत्वेन शाब्दत्वात् । इह हि विषयव्य तिरेकेण ज्ञानानामतिशयो दुरुपपादः, बोधस्वभावस्य सर्वान् प्रत्य विशिष्टत्वात् । तत्र .यथा दण्डीति शुक्ल इति वा प्रत्ययो विशेषणावच्छिन्नविशेष्यविषयता सातिशयत्वमश्नते, तथा गौरित्यादिप्रत्ययोऽपि वाचकावच्छिन्नवाच्यविषयत्वात् सातिशयत्वं भजते; शब्दावच्छिन्नवाच्यविषयत्वाच शाब्द एष प्रत्ययः, तद्यतिरिक्तकरणकार्यत्वानुपपत्तः ॥
न हीन्द्रियकरणकमिदं ज्ञानं भवितुमर्हति, चक्षुणे विपणाविषयत्वात् , विशेष्ये च श्रोत्रस्यासामर्थ्यात् । न च युगपदिन्द्रियद्वयद्वारकमेकमुत्पद्यमानं ज्ञानं क्वचित् दृष्टम् ॥
'तत्तत्स्यात्-मानसमिदंशानं सुगन्धिबन्धूकबोधवद्भविष्यति। उक्तमत्र--शब्दलिङ्गादिकरणान्तरव्यापारविरतो कार्यमुपजायमानं केवलमनःकरणमिति कल्प्यते, न तत्संभवेऽपि। तथा हि सति ____ अतिशयः-विशेषः। विशेषणेत्यादि । दण्डिनं शुक्लं च पुरुषं दृष्टा कदाचित् दण्डीति, कदाचित्तु शुक्ल इति बुद्धिर्जायते । तत्र बुद्रयोर्भेदः न म्वरूपतः, उभयोरपि ज्ञानस्वात् । नापि विशेष्यभेदात् ; तदभावात् । अत विशेपणभेदादेव । शब्दश्च सर्वत्र विशेषणतया भासत एव । एवञ्च शब्दावच्छिन्नविषयत्वात ज्ञानानां शब्दैरेव सातिशयत्वं वक्तव्यमिति शाब्दमेव सर्व ज्ञानम् इति ॥ · ननु प्रत्यक्षे विषयस्यापि भानात, तदंशे इन्द्रियापेक्षणात् प्रत्यक्षं तत् कुतो न स्यात् इत्यत्राह-न हीत्यादि। विशेषणाविषयत्वातशब्दाग्राहकत्वात् । विशेष्ये-घटादौ। ननु एवमपि विशेषणविशेष्ययोरुभयोरपि इन्द्रियग्राह्यत्वमस्त्येवेति इन्द्रियद्वयजन्यं तत् ज्ञानं कुतः प्रत्यक्षं न भवतीत्यत्राह-न चेति । युगपदिन्द्रियद्वयेन मनसस्सन्निकर्षासंभवादित्यर्थः । 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' इति हि सूत्रम् ॥ __शकते -- तत्रेति । मानसमिति । सुरभि चन्दनमित्यादिप्रतीतिरपि दृष्टान्ततया बोध्या। समाधत्ते-उक्तमिति। तत्संभवे-शब्दादिकरणाम्तरसंभवे । तथा हि सति-शब्दादिकरणान्तरसन्निधानेऽपि केवलमानस
दीना-क. नै-क.