________________
206
प्रत्यक्षलक्षणघटकदलकृत्यम्
[न्यायमचरी
ननु! लोकः शाब्दतामस्य व्यपदिशति--'देवदत्तेनाख्यातं पनसोऽयमिात' इति व्यवहारादित्युक्तम्। अहो ! लोक'वत्सलः' श्रद्दधानो महानुभावः! न खलु लोकस्य व्यपदेशैकशरणा वस्तुस्थितयो भवन्ति । लोको हि यथारुचि व्यपदिशति । नानामुनिजनसाधारणमपि तीर्थ नन्दिकुण्डपिति किं न 'श्रुतवान् भरान् ?
हन्त ! तर्हि सूत्रकाराशरमनुसरन्तः शाब्दमिदं ज्ञान प्रति- . पद्यामहे ; यदयं सूत्रकारः प्रत्यक्ष शब्दानुप्रवेशव्यवच्छेदाय विशेषण. मिदमुरदिशाति, शब्दे तु नेन्द्रियदासाय किञ्चिद्विशेषणमुपादत्त,स पश्यति 'कारणान्तरानुप्रवेशेऽपि शाब्दमेतत् ज्ञानमिति । उच्यते
मनुवत् सूत्रकारोऽप न धर्मम्योपदेशकः। .
ये तदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥ १३॥ : वस्तुस्थित्या तु निरूप्यमाण मिन्द्रियान्वयव्यतिरेकानुविधायि.. त्वादिदं विज्ञानं न प्रत्यक्षफलतामतिवर्मते । ततश्च व्युदस्यमानं प्रमाणान्तरतामेव स्पृशत् ॥
स्विमतेन भव्यपदेश्यपदप्रयोजनकथनम् | तस्मादुभयजज्ञानव्युदासानुपपत्तितः।
व्याख्या भङ्गयन्तरेणास्य पदस्ययं विधीयते ॥ १४ ॥ असम्भवदोषव्यवच्छेदार्थमव्यपते श्यपदोपादानम् । एवं हि परो मन्यते - सति लक्ष्ये लक्षणवर्णनमुचितम् । इह तु
अहो इत्यादि। तेन हि व्यवहारेण संज्ञासंज्ञिसम्बन्धनिश्चयमात्रं, न तु पनसप्रत्यक्ष तजन्यमित्यवधेयम् । इदं च उत्तरत्र (२२० पु.) स्पष्टीभविष्यति॥
सूत्रम्बारस्यानुरोधेनास्य शाब्दत्वं ब्रूम इति पूर्वोक्तमेवानुवदतिहन्तेत्यादि। सः-एवं वदन् सूत्रकारः। पश्यति-अभिप्रैतीति यावत् । मनुवदित्यादि । अयं भावः---शब्दैकसमधिगम्ये धर्मादौ शब्देन यथा बोध्यते, तथैव प्रतिपत्तव्यम् । प्रत्यक्षविषयवस्तुविषयकविचारे तु यथाप्रमाणं शब्दो नेय इात । व्युदस्यमानं प्रत्यक्षेऽनन्तर्भाव्यमानम् ।।
'वत्सः-ख. ' श्रुतवानिति-क. 'शानं इति-ख. ' करणा-ख.