________________
आणिकम २ ]
इति । करणम् ॥
अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रति धाय किमपि विशेषणमुपरचितम् ; 'उपदेशः शब्दः' इत्येतावदेव लक्षणमभिहितम् । अतश्चेन्द्रियानुप्रवेशेऽपि शाब्दतामस्य मन्यते
अव्यपदेश्यपदप्रयोजनम्
205
तत् इन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्र
सूत्रकारः ॥
इह पुनः अव्यपदेश्यविशेषणपदोपादानेन शब्दानुप्रवेशप्रतिपेधात् न प्रत्यक्षमेतत् ज्ञानम् । तस्मादेवंविधव्यपदेश्य ज्ञानव्यवच्छेदार्थमव्यपदेश्य पदमिति ॥
[उक्तमतनिराकरणम् ]
तदेतत् व्याख्यातारो नानुमन्यन्ते - यद्युभयजं ज्ञानं अव्यप देश्य पदेन व्युदस्यते, तदपि नाप्रमाणम्, अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत् कस्मिन् अनुविशतामिति चिन्त्यम्-
"
ननु ! शाब्दमिदं ज्ञानं तद्भावानुविधानतः । भवत्वक्षजमप्येतत् तद्भावानुविधानतः ॥ ११ ॥ शाब्दं चोभयजं चेति विरुद्धमभिधीयते । प्रमाणान्तरमेव स्यात् इत्थं तदपि पूर्ववत् ॥ १२ ॥
तत् तस्मात् । शब्द एवेति । प्रत्यभिज्ञायां हि संस्कारसह कृतमिन्द्रियं 'करणमिति तत् प्रत्यक्ष मुच्यते । तथाऽत्रापि इन्द्रियसहकृतः शब्द एव करणमिति
शाब्द एवायम् ॥
अत एव - कुत्रचित् शाब्दबोधविशेषे अंशतः इन्द्रियस्याप्यपेक्षणादेव || शब्दन्द्रियो भयजन्यं प्रदर्शित ज्ञानं कथं शाब्दम् ? एवं सति तस्य प्रत्यक्षत्वमपि यदि निराक्रियते तर्हि पञ्चममेव ज्ञानमेतत् स्यात् । अत इदं प्रत्यक्षमेवेति न तद्व्यावृत्त्यर्थं अव्यपदेश्यपदोपादानमिति युक्तमिति समाधत्ते --- तदेतदिति । अव्यपदेश्यपदेनेति । अन्यभिचारिपदेन वारणे हि तस्य म्यभिचारित्वात् अप्रामाण्यमिति स्यात् । नेदानीं तस्याव्यभिचरितत्वात् ॥ पुर्वोतमनुवदति--नन्विति । तद्भावः - इन्द्रियसद्भावः । पूर्ववत्भाष्यकारपक्षोक्तशब्दानुविद्ध प्रत्ययवत् ॥
भक.