________________
204
प्रत्यक्षलक्षणघटकइलकृत्यम्
न्यायमचरी
[अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनवर्णनम्] व्यवच्छेद्यान्तरमपदेश्यपदस्य वर्णयाञ्चकराचार्याः। शब्दा. थेषु 'स्थविरव्यवहारतः' व्युत्पद्यमानो जनः संशयावगम समये संज्ञोपदेशकादयं पनस उच्यत इति वृद्धोदीरितात् वाक्यात् पुरोवस्थितशाखादिमन्तमर्थ पनसशब्दवाच्यतया जानाति । तदस्य ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणकं भवितुमुचितम् , असति संज्ञोपदेशिनि शब्दे तदनुत्पादात । तेन शब्देन्द्रियाभ्यां संभूय जनितत्वात् उभयजमिद ज्ञानं व्यपदेशाजातमिति व्यपदेश्यमुच्यते। तत् अव्यपदेश्यपदेन व्युदस्यते ॥
न चेदं पञ्चमं प्रमाणमवतरति, किन्तु शाब्दमिवैतदनुमन्यते लोकः तथा च-कथं पुनर्जानीते भवान् पनसोऽयमिति ? इति पृष्टः प्रतिवक्त--'मम देवदत्तेनाख्यातं, पलसोऽयमिति' इति । न पुनरेवं विस्मृत्यापि ब्रवीति 'चक्षुषा प्रया यतिपन्नं पनसोऽयमुच्यत इति'
प्रत्यक्षस्य प्रमाणत्वेऽपि वा नात्र लक्ष्यत्वमिति तस्य भव्यपदेश्यपदेनैव म्यावृत्तिर्वक्तव्येत्याशयः । ननु तर्हि तस्य कुत्रान्तर्भाव इति चेत् , यत्र कुत्रापि वा यथा वं भवतु । अन्यथा हि ईश्वरप्रत्यक्षस्य नित्यस्य इन्द्रियार्थसनिकर्षजन्यत्वाभावेनान्याप्तथापत्या तम्यालक्ष्यतायां वाच्यायां, तस्य कुत्रान्तर्भाव इत्यपि प्रश्नः समुदेत्येव। समाधिस्तु तुल्यैव--'इत्याशयः ॥
स्थविरः-वृद्धः । संशोपदेशात्-संज्ञासंज्ञिसम्बन्धज्ञापकात् ! अस्य वाक्यादित्यत्रान्वयः। अयमत्र भाव:-श्रुतपनसपदेन पुरुषेण वृक्षसामान्ये प्रत्यक्षतो गृहीते कोऽयं वृक्षः इति संशये सति विशेषसंज्ञायोधकशब्दश्रवणवशात् पनसशब्दवाच्यत्वप्रकारकं पुरोवर्तिवृक्षविशेष्यकं च 'अयं पनसः' इति ज्ञानं जायते। नेदं केवलं प्रत्यक्षं, शब्दश्रवणस्याप्यपेक्षणात्। अत: शब्द-इन्द्रियोभय जज्ञानग्यावृत्यर्थं अन्यपदेश्यपदमिति ॥
ननु इन्द्रिय-संस्काराभ्यां जातं प्रत्यमिज्ञानं यथा प्रत्यक्ष, तथेदमपि कुतो न स्यात् ? यदिदं ज्ञानं न प्रत्यक्षं तर्हि कुत्रान्तर्भाव इति भाशय शाब्दऽ. न्तर्भावं वदति-न चेत्यादि । तथा च प्रतिवक्ति इत्यन्वयः ।
1व्यवहारतः-क.
संशयापगम-ग.