________________
अव्यपदेश्यपदप्रयोजनम्
[ भाष्योक्तं अव्यपदेश्यपदप्रयोजनम् ]
तत्र वृद्धनैयायिकास्तावदाचक्षते - व्यपदिश्यत इति व्यपदेश्यं शब्दकर्मतापनं ज्ञानमुच्यते । यत् इन्द्रियार्थसन्निकर्षादुत्पन्न सत् विषयनामधेयेन व्यपदिश्यते रूपज्ञानं रसज्ञानमिति, तत् व्यपदेश्यं ज्ञानं प्रत्यक्षफलं प्रत्यक्षं मा भूदिति अव्यपदेश्य ग्रहणम्तदिदमनुपपन्नम् न हि नामधेयव्यपदेश्यत्वमप्रामाण्य कारणं भवति । यदि हि तत् रूपज्ञानं रसज्ञानं' च विषयाव्यभिचारि, निस्संशयं च तत् कथमप्रमाणफलमुच्यते । व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिक्षेपात् किमव्यपदेश्यपदेन ?
आह्निकम् २ ]
,
प्रमाणफलं च तद्विज्ञानं इदानीं किंप्रमाणप्रभवं भवतु' ? न प्रत्यक्षफलम् एतत्पदं प्रतिक्षिप्तत्वात् । नानुमानादिजन्यम्, तद्वैलक्षण्यात् । नास्ति किञ्चित् पञ्चमं प्रमाणम् । असङ्गूहोऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः । तस्याख्यानमेतन ॥
वृद्धनैयायिकाः- वात्स्यायन महर्षयः । शब्दकर्मतापन्नं - नामधेय - शब्देनाभिलप्यमानम् । अव्यपदेश्यग्रहणं इत्यनन्तरं इतिकरणं द्रष्टव्यम् । तथा च शब्दानुविद्धस्य प्रत्यक्षस्य वारणाय 'अव्यपदेश्य 'पदमिति भावः । पदान्तरेण - अव्यभिचारिपर्देन ||
ननु न तस्याप्रामाण्यमुक्तं, किन्तु तस्यात्रा लक्ष्यत्वमात्रं चेत् तत्राह-प्रमाणफलमिति । किं प्रमाणेति । अयमर्थ: - यदि चतत् ज्ञानं मव्यपदेश्यपदेन व्यावर्त्यते, तहींदे ज्ञानं किं रूपमिति वक्तव्यम् । प्रत्यक्षरूपत्वं तु निराकृतमेव अनुमानादिरूपत्वं तु सुतरां न संभवति । अतः ज्ञानलक्षणाप्रत्यासत्तिवशात् शब्दस्य प्रत्यक्षे भानं तत्र वक्तव्यम् । एवञ्च 'सुरभि चन्दनं ' इतिवत् अलोकिक लोकिकसन्निकर्षाभ्यामुत्पन्नं एकं ज्ञानं तदिति वक्तव्यम् । तथा तदपि लक्ष्यमेव अन्यत्र कुत्राप्यनन्तर्भावात् ॥
भाष्यकृतस्तु — सूत्रे इन्द्रियार्थसन्निकर्ष पदोपादानेन इदं सूत्रं केवललौकिकसन्निकर्षजन्यप्रत्यक्षलक्षणपरमेव । न लौकिकः सन्निकर्षः इन्द्रियार्थ - सम्बन्धरूपः । अतश्व लौकिकालौकिकसन्निकर्ष द्वयजन्यस्य शब्दानुविद्ध -
1
203
रूपज्ञानं-क.
2
भवत् भवति - ख.
३ प्र-ख.