________________
सुखस्यापि व्यभिचारित्वापपादनम्
आह्निकम् ।
201 ननु ! न सुखं मिथ्या, तदपि ह्यानन्दस्वभावमेव-ययेवं शुक्तिकायां रजतज्ञानमपि न मिथ्या, तदपि हि विषयानुभवस्वभावमेव ॥
ननु! विषयानुभवस्वभावमपि तज्ज्ञानं विषयं व्यभिचतिसुखमपि तहींदमानन्दस्वभावमपि स्वहेतुं विषयं व्यभिचरत्येव ॥
किमसुखसाधनेन तजनितम् ? ज्ञानमपि किं अज्ञानसाधनेन जनितम् ?
ननु ! ज्ञान ज्ञानसाधनेन जनितं असत्येन प्रत्य बाधितेन रजतादिना-सुखमाप सुखसाधनेन जनितं असत्येन तु शास्त्र. बाधितेन परवनितादिना ॥
किं परवनितादि न सत्यम् ? तत्रापि ज्ञानजनकं 'न सत्यम् ?
असत्यं, प्रत्यक्षबाधितत्वात् ; परवनिताद्यपि सुखसाधनमसत्यं, शास्त्रवाधितत्वात् ।।
ननु! शास्त्रेण किमत्र बाध्यते ? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते ?
विषयो मिथ्येति ख्याप्यते; शास्त्रेणापि सुखस्य हेतुर्मिथ्येति ख्याप्यते॥
किं स विषयस्मुखहेतुर्न भवति ? यथा त्वेष विषयः कलुषस्य ज्ञानस्य हेतुः, तथा सोऽपि कलुषस्य कटुवपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवेत्यलमतिकेलिना ॥ . तस्मात् समानन्यायत्वात् सुख व्यभिचारताऽस्तीति अव्यभिचारिपदात् ज्ञानं न लभ्यते ॥
__ तदपि--परदारोपभोगजसुखमपि ज्ञानसाधनेने त्यस्य विशेषणं असत्येनेत्यादि । एवं सुखसाधनेनेत्यत्रापि ॥
ज्ञानजनकं-शुक्तिकादि । निरधिष्ठानस्तु भ्रमः नास्त्येव ॥
अलमिति । अयमत्र सार:। अन्यथाख्यातिरेव सिद्धान्ते, न त्वसत्ख्यातिः । एवज शुक्तौ इदं रजतमित्यादौ रजतं न सर्वथा मिथ्या, आपणे सत्वात् । किन्तु तादात्विकप्रत्यक्षजनकत्व विशिष्टवेषेणैव मिथ्यात्वम् । एवञ्च परदारादेरपि बलवदनिष्टाननुबन्धित्वविशिष्टसुखपाधनस्वविशिष्टयेषेणापि तथात्वमेवेति ॥
सत्यम्-ख.