________________
प्रत्यक्षलक्षणघटकदलकृत्यम्
[ न्यायमञ्जरी
ज्ञानमपि ज्ञानपूर्वकमेवेति चेत् न - उपरिष्टान्निराकरिष्यमाणत्वात् । न हि गर्भादौ मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति वक्ष्यामः (७ आह्निके) । तेन 'ज्ञानसुखाatri वैलक्षण्योपपादनात् 'सुखादिनिवृत्त्यर्थ ज्ञानग्रहणमर्थवत् ॥
200
[अव्यमिचारिपदेन न ज्ञानपदवैय्यर्थ्यम् ]
ननु ! एवमपि न ज्ञानग्रहणेन कृत्यम्, अव्यभिचारिपदादेव सुखादि' व्यवच्छेदस्य सिद्धत्वात् । व्यभिचाराव्यभिचारौ हि ज्ञानस्य धर्मो न सुखादेः । अतस्तदुपादानात् तद्धर्मयोगि ज्ञानं लभ्यत एव । किं ज्ञानग्रहणेन ? नैतदेवम्-सुखस्यापि सव्यभिचारस्य दृष्टत्वात् । किं पुनस्सुखं व्यभिचारवत् दृष्टम् ? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसंभवं सुखं तद्यभिचारि ॥
[ ज्ञानवत् सुखमपि व्यभिचरितं अस्त्येव ]
ननु ! सुखस्य कीदृशो व्यभिचारः ? ज्ञानस्यापि कीदृशो व्यभिचारः १
अतस्मिंस्तथाभावः -- सुखस्यापि अतस्मिंस्तथाभाव एव ॥ किं परपुरन्ध्रीपरिरंभ संभवं सुखं सुखं न भवति ? किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति ?
ज्ञानं भवति, किन्तु मिथ्या - इदमपि सुखं भवति, किन्तु मिथ्या ॥
ज्ञानमपीति । बौद्धमते उत्तरज्ञानं प्रति पूर्वक्षणिक विज्ञानस्य कारणत्वात्, सिद्धान्तेऽपि कुत्रचित्तथाऽङ्गीकारादिति भावः ॥
तद्धर्मयोगि- व्यभिचाराग्यभिचारधर्मयोगि । किं- कीदृशम् ॥
लो ह्यनुभूयमानं सुखं कदाप्यसुखं न भवतीति कथं सुखस्य व्यभिचार इति शंकां ज्ञानप्रतिबन्दिदानेन निराकरोति - नन्वित्यादिना । अत्र पूर्ववाक्यं आक्षेप :- उत्तरवाक्यं समाधानम् । एवमुत्तरत्रापि ॥
' सर्व सुखादि ज्ञानपूर्वकमेवेति चेव - क. ( पूर्व पुटाव) 3 सुखादि - ख.
"सुखादीनां - ख.