________________
आहिकम् २] ज्ञानमुखयोः भिन्न कारणजन्यत्वम्
199 तयोश्च तत्कारणैः बीजक्षितिजलादिभिस्सह योग्यतैव संसर्गः । एवं मुखत्वादीनामपि स्यात् । तस्मात् निमित्तकारणमेदात् भिन्नानि जानसुखादीनि कार्याणि ॥
निमित्तकारणान्यत्वमपि कार्यस्य मेदकम् । विलक्षणा हि दृश्यन्ते घटादी पाकजा गुणाः ॥ ८॥ अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् । सुखदुःखादि सर्व तु विषयज्ञानपूर्वकम ॥९॥ . विषयानुभवोत्पाद्याः यत्रापि न सुखादयः।
तत्रापि तेषामुत्पत्ती कारणं विषयस्मृतिः ॥१०॥ ___क्वचित्त सङ्कल्पोऽपि सुखस्य कारणतां प्रतिपद्यते। तस्मात् 'सर्व सुखादि ज्ञानपूर्वकमेव ॥
तादृशशाल्याद्युत्पत्त्यर्थमिति भावः। यद्वा सुखदुःखहेतोरिति पञ्चम्यन्तम् । तयोः-धर्माधर्मयोः ॥
घटादाविति । पाकजगुणान् प्रति घटो हि समवायिकारणम् । अपि चेत्यादि। ज्ञानं हि स्वोत्पत्तौ पूर्व घटादिविषयमपेक्षते, न ज्ञानान्तरम् । सुखमपि यदि ज्ञानरूपं तर्हि स्वोत्पत्तौ विषयमपेक्षेत । लोके तु सुख पूर्व अनुकूलत्वज्ञानमेवापेक्षते। एवञ्च सुखं, न ज्ञानरूपं, ज्ञानजन्यत्वादिति । ननु विषयज्ञाने जातेऽपि कुत्रचित् सुखानुत्पत्त्या न तयोः कार्यकारणभाव इति चेत्--- सुखादीनां झुत्पत्तौ न विषयज्ञानमात्रं हेतुः, किन्त्वनुकूलत्वस्मरणमपि । एतदभावाच न. विषयज्ञानमात्रात् सुखाद्युत्पनिरिति । यद्यपि सिद्धान्ते ज्ञानात ज्ञानान्तरोत्पत्तिरिष्यते। अथापि न सर्व ज्ञानं ज्ञानसापेक्षं, अनुष्यवसाय एक एव ज्ञानापेक्षः। सुखं तु सर्व ज्ञानापेक्षमेवेत्यस्ति ज्ञानसुखयोर्विशेषः । नन्वेवमपि ज्ञानानां द्विक्षणावस्थायित्वनियन सर्वत्रापि पूर्वज्ञानापेक्षा उत्तरज्ञानस्य वर्तत एवेति चेत् -- इदमपि धागवाहिज्ञानस्थल एव। न हि तत्रापि बौद्धमत इव ज्ञानात् ज्ञानान्तरोत्पत्तिः ; किन्नु स्वकारणादेव । एवञ्च ज्ञानस्य न नियमेन ज्ञानान्तरापेक्षा, सुखस्य त्वस्त्येवेति ज्ञानसुखयो।लक्षण्यं दुरपह्नवमिति । अनुपदमेव च स्पष्टीकृतं इदं ग्रन्थकारेण ॥ __ सङ्कल्पः-मनोवृत्तिः, अमिमान इति यावत् । सानपूर्वकमेव, न तु विषयपूर्वकमिति एवकारार्थः ॥