________________
प्रत्यक्षलक्षणषटकदलकृत्यम्
198
न्यायमञ्जरी मेव। तश्च न स्वच्छमः अपि तु केनचिद्घटादिना विषयेणोपरक्तं, अन्वयव्यतिरेकाभ्यां च घटाधुपजननापायेऽपि बोधस्वभावमनुवर्तमानं प्रतीयते। तदिदानीं सुवज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते, न स्वरूपेणैव सुखात्मकम् । ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा दृष्टत्वादिति । तस्मात् न बोधरूपाः सुखादयः॥
ज्ञानसुखयो: सजातीयकारणजन्यत्वं नास्त्येव अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः; समवायिकारणस्यात्मनः, असमवायिकरणस्य चात्ममनस्संयोगस्य चाभेदेऽपि निमित्त कारणस्य सुखत्वज्ञानत्वादेर्भिन्नत्वात् ॥
ननु 'सुखोत्पादात्पूर्वमनाश्रयं सुखत्व सामान्यं कथं तत्र स्यात् ? कश्चा'स्य' सुखहतुभिः कारकैः संसर्गः? असंसृष्ट 'वा' कथं कारकं स्यात् ?--उच्यते--सर्वगतानि सामान्यागि साधयिष्यन्त (५ आह्नि के) इति सन्ति तत्रापि सुखत्वादीनि। योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः, धर्माधर्मवत्। धर्माधर्मो हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणम् ।
शक्यमिति भावः। स्वच्छं--विषयानुपरक्तम। विषयानुपरक्तस्य ज्ञानत्वासंभवादिति हेतुरुह्यः। अपि स्वित्यादि । एतदुक्तं भवति । ज्ञानं हि घटादिना विषयेणोपरक्तं घटज्ञानं, परज्ञानं इत्यादिना व्यवहियते। घटज्ञाने पटस्य पटज्ञाने घटस्य चाविषयीकरणेनान्वयव्यतिरेकाभ्यां हि घटस्य ज्ञानस्य च भेदः सिद्धयत्येव । एवमेव हि सुखाद्युपरक्तं ज्ञानं सुखज्ञानमित्यनुभूयते। तत्रापि घट-ज्ञानयोरिव सुख-ज्ञानयोर्भेद आवश्यक एव, सुखदु:खानुपरक्तस्य ज्ञानस्यानुभवादिति। अन्यदा-सुखदुःखानुपरागकाले ॥
सुखत्वज्ञानत्वादेरिति । अयभाशयः-दण्डचक्रसलिलकुलालमृदादिभिस्सजातीयैरेव कारणैरुपजायमानोऽपि एको घटो भवति, अपरः मणिकः, अन्यः शरावः। तत्र हि स्वरूपभेदापादक: जातिभेद एव कार्यभेदनियामकः । तद्वदत्रापि। न च तत्र मृदयमित्येकाकारानुवृत्तिः दृश्यत एवेति वाच्यम् । दन्यसमवायिकारणके गुणे तादृशदन्यत्वानुवृत्तेरदर्शनात् इति ॥
सुखत्वसामान्य-सुखत्वरूपा जाति: । तत्र-सुखरूपकार्योत्पत्तिस्थले एषां-सुखस्वादिजातीनाम् । सुखदुःखहेतोः शाल्यादेर्जायमानस्यत्यन्वयः ।
1 असु-क. ख-क. पि-ख. 'च-ख. हेतौ-क.