________________
196 प्रत्यक्षलक्षगघटकदलकृत्यम्
न्यायमचरी अत एवेदमपि न वचनीयम्-एकमेवेदं संविद्रपं हर्षविषादाधनेकाकारविवर्त पश्यामः, तत्र यथेष्टं संक्षाः क्रियन्तामितिसंघिदो विषयानुभवस्वभावतयैव प्रतिभासात्, सुखादेश्च विषयानुभ'वस्वभावस्यानुस्यूतस्या प्रतिभासात्। शानमेव विषयग्रहणरूपं प्रकाशते; न मुखं, दुःखं वा ॥
यस्तु सुखक्षानं दुःखशानमिति प्रतिभासः, सः ज्ञानस्वभाव. मेदकृत एव, संशयज्ञानं विपर्ययज्ञाममितिवन --उक्तमत्रसंशयविपर्ययादी विषयानुभवस्वभावत्वमनुस्यूतमवभाति। संशयो हि विषयग्रहणात्मकोऽनुभूयते, अनिश्चितं तु विषयं गृह्णाति। विपर्ययोऽपि विषयग्रहणात्मक एव, विपरीतम सन्तं वा विषयं गृहाति। न तु विषयग्रहणस्वभावं सुखं दुःखं चानुभूयते । अतः अन्य एवायं ग्राहकस्वभावः आन्तरो धर्मः सुखदुःखादिरिति घटज्ञानव. द्विषयतयैव ज्ञानं मिनत्ति, न स्वभावभेदेन संशयशानवदिति ॥
ज्ञानसुखादयः न स्वप्रकाशा:] तत्रैतत् स्यात्-स्वप्रकाशत्वात् सुखादेः न ग्राह|कस्वभावत्वम् । अतश्च ग्राह्यग्रहणोभयधभावत्वात् मानमेव तदिति--मैवं वोचः-स्वप्रकाशन्वं शानेऽपि प्रतिक्षिप्तम् (पु. 11), 'प्रतिक्षेप्स्यते (९ भाहिके) च। तत कुतः सुखादी भविष्यति। न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति॥
अत एव-ज्ञानसुखयोः सर्वथा विलक्षणत्वादेव । ननु न ज्ञानमेव सुखं, किन्तु ज्ञानस्याकारभेदः; अत: प्रतिभासभेदो युक्त इत्यत्राह-सुखादेरिति । यथा हि मृदाकारविशेवे घटे ‘मृदयम्' इति प्रतिभासः, तथा ज्ञानस्य आकारभूतं यदि सुखं, तहिं विषयानुभवस्वभावं प्रतीयेतेत्यर्थः ।
अनुस्यूताकारप्रतिभासं शङ्कने - यस्त्विति । समाधत्ते उक्तमिति । ग्राहीकस्वभावः-विषयमात्ररूपः : अवधारणेन ज्ञानवत् विषयित्वं व्यवच्छिद्यते। घटज्ञानवदिति। सुखज्ञानमिति हि घटज्ञानमितिव्यवहारतुल्यमित्यर्थः ।।
स्वप्रकाशवस्यैव निर्वचनं ..ग्राह्यग्रहणोभयस्वभावत्वादिति । विषयाणां घटादीनां ज्ञानेनैव भानम् । ज्ञानस्य तु स्वत एव । अतः ज्ञानं
बानुस्यूतस्या-ख. 'सा-क,
वाद-क.
'शे-क.