________________
आह्निकम् २०
ज्ञानपदप्रयोजनम
195
[सुखादीनां ज्ञानरूपत्वाक्षेपः अत्र शाक्याश्चोदयन्ति-न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तु युक्तः, शक्यो वा ; सुखादीनामपि ज्ञानस्वभावत्वात् । ज्ञानस्यैवामी भेदाः, सुख दुःखं इच्छा द्वेषः प्रयत्न इति। कारणाधीनो हि भावानां मेदो भचि तुमर्हति। समानकारणानामपि तु भेदेऽभिधीयमाने 'न कारणकृतं पदार्थानां नियतं रूपमिति तदाकस्मिकत्वप्रसङ्गः। तदुक्तम् (प्रमाणवार्तिक-3-251)
'तदतपिणो भावाः तदतद्रूपहेतुजाः।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्' इति । तस्मात् , ज्ञान रूपा:-सुखादयः -तदभिन्नहेतुजत्वात्--इति ॥
. . सुखादीनां ज्ञानरूपत्वनिराकरणम्]
तदिदमनुपपन्नम्-प्रत्यक्षविरुद्धत्वाद्धेतोः। सुखादि संवेद्यमानमानन्दादिरूपतयाऽनुभूयते, ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात् कथममेदे अनुमानं क्रमते ?
सुखादिकं ज्ञानस्यैवाकारविशेष इति वादिनो बौद्धस्य मतमुपक्षिपतिअत्रेति । ज्ञानस्यैवामी मेदा इति । तथा च प्रमाणवार्तिक-- 'सुखदुःखामिलाषादिभेदा बुद्धय एव ताः' (3-449) इति । अत्र युक्तिमाह- कारणाधीन इति। नियतं रूपं-तत्तद्वस्तुप्रतिनियत: भाकारः । तदाकस्मिकत्वप्रसङ्गःकार्यवैलक्षण्यस्य निर्हेतुकत्वापत्तिः। तदतदिति । यथासंख्यमन्वयः । तद्रूपहेतुजाः तपिणो भावाः, अतद्रूपहेतुजाः अतपिणो भावाश्च भवन्ति । मृत्पिण्ड जातीयादुत्पन्नं मृजातीय, तद्विजातीयाचोत्पन्न कार्य तद्विजातीयमेव भवति। एवञ्च यादृशेन कारणेन आत्ममनस्संयोगादिना ज्ञानमुत्पद्यते, तादृशेनैव कारणेनोत्पद्यमानं सुखादि अज्ञानं--ज्ञानविलक्षणं भवति किम् ? तदभिन्नहेतुजत्वात्-ज्ञानेन सार्क अभिन्नहेतुजत्वात ; ज्ञानहेतुजातीयहेतुजन्यत्वादिति यावत् ॥
कार्ययोः वैलक्षण्यस्यानुभवसिद्धत्वात् तदमिनहेतुजत्वं नास्तीत्युपपादयति-सुखादीति । ज्ञानं हि बाह्य विषयमपि कोडीकरोति, न तथा सुखम् ॥ का-क. रूपा:-क. वे-क.
139