________________
194
प्रत्यक्षलक्षणघटकदलकृत्यम्
न्यायमञ्जरी
तद्भाह्यत्वात् । भौतिकघ्राणादीन्द्रियधर्मवैलक्षण्यान्तु मनसस्तद्वर्गे परिगणनं न कृतमिति ॥
[सनिकर्षाणामुपयोगप्रकारः ]
तश्चेदं प्रत्यक्षं चतुष्टय-त्रय-द्वयसन्निकर्षात् प्रवर्तत । तत्र बा रूरादौ विषये चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यत - आत्मा मनसा संयुज्यते, मन इन्द्रियेण इन्द्रियमर्थेनेति । सुखादौ तु सन्निकर्षात् ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु.. योगिनः द्वयोरात्ममनसोरेव संयोगात् ज्ञानमुपजायते; तृतीयस्य ग्राह्यस्य 'ग्राहकस्य वा नत्राभावात् । तस्मात् सुखादिज्ञानसङ्गहात् इन्द्रियार्थसन्निकर्षोत्पन्नमिति युक्तमुक्तम् । आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूक्तिम्, सर्वप्रमाणसाधारणत्वात् ॥ [' ज्ञान 'पदप्रयोजनम् ]
ज्ञानग्रहणं विशेष्य निर्देशार्थम् । तस्य हि इन्द्रियार्थसन्नि कर्षोत्पन्नत्वादीनि विशेषणानि । तान्यसति विशेष्ये कस्य विशेषणानि स्युगित ॥
अथवा सुखादिव्यावृत्त्यर्थ ज्ञानपदम् । इन्द्रियार्थसन्निकर्षोत्पन्नं सुखमपि भवति । तत्र तज्जनकं कारकचक्रं प्रमाणं मा भूत, ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ॥
प्रत्यक्षे नास्तीत्यव्याप्तिरित्यर्थः । ननु यदि मनः इन्द्रियं तर्हि इन्द्रियसूत्रे कुतः न पठितमित्यत्राह --- भौतिकेति । वैलक्षण्योपपादकतया भौतिकेपदम् ॥ आत्मेति । आत्ममनइन्द्रियार्थानां चतुर्णामत्र सन्निकर्षः । त्रयेति । प्रत्ये आत्मा, मनः, सुखादिरिति त्रयं बोध्यम् । योगिन इति । सर्वेषामपि स्वात्मा विषयीभवत्येव, अथापि यथाऽवस्थितात्मसाक्षात्कारः योगिनामेव । अन्यथा सर्वेषामपि तस्वज्ञानित्वप्रसङ्गः ॥
►
अव्याप्त्यतिव्याप्त्यसंभवान्यतमत्रारणायैव पदप्रयोगः लक्षणवाक्ये युक्त इत्याशयेनाह – अथवेति । सुखमपि भवतीति । अन्ततः तस्यापि मनस्सन्निकर्ष जन्यत्वादित्यर्थः ॥
बा-क.
2- ख.