________________
आह्निकम् २]
'सुखादे: मानस प्रत्यक्षविषयत्वम्
193
कारणत्वमवधार्यते, तथाऽर्थ 'स्यापि ज्ञानोत्पत्तौ । यथा हि देवदत्तार्थी कश्चित् गृहं गतः, तत्रासन्निहितं न पश्यति देवदत्तम्, क्षणान्तरे चैनमायान्तं पश्यति, तत्रान्वयव्यतिरेकाभ्यां देवदत्तसदसत्वानुवर्तिनी ज्ञानोत्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण चन्दन सुखदस्य' तत्कारणतां प्रतिपद्यते ॥
ननु ! वीरणकटयोः पृथगुपलंभात् युक्त एष न्यायः, 'अर्थस्तु ' ज्ञानात् पृथक् न कदाचिदुपलभ्यत इति 'दुरधिगमौ ' तत्रान्वयव्यतिरेकौ - उच्यते-अयमेव पृथगुपलंभः, यदसन्निहितेऽर्थे न द्विषयमबाधितं ज्ञानमुत्पद्यत इति । तदलमस्मिन्नवसरे ज्ञानवादगर्भचोद्योद्विभावविषया; भविष्यत्येतदवसरे (९ आह्निके) इति ॥
[' उत्पन्न' पदप्रयोजनम् ]
यथा चेन्द्रियाणां करणानां अन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वं, एवमर्थस्य कर्मणोऽपीत्युत्पन्नग्रहणेन दर्शितम् ॥
[सुखादयोऽपि मानसप्रत्यक्षविषयाः ]
ननु ! इन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्ष न सङ्गृहीतम् - न न सङ्गृहीतम् - - मनस इन्द्रियत्वात् सुखादेरर्थस्य
,
चन्दन सुखदृष्टान्तः । अस्य विषयस्य । यथा चन्दनसुखं मानसप्रत्यक्षवेद्यं, तथा विषयस्य प्रत्यक्ष कारणत्वं स्वानुभवसिद्ध मित्यर्थः ॥
'सहोपलं भनियमात् अभेदो नीलतद्वियो:' इति वदन् पृच्छति - नन्विति । वीरणं - तृणविशेषः । यदि ज्ञानार्थयोर्भेदः, तर्हि कुत्रचित् ज्ञानं जातं अर्थ व्यभिचरेदिति भावेन - अबाधितमिति । यथा चेत्यादि । अर्थस्य ज्ञानजनकत्वं कथमवगम्यते ? इति पृच्छता हि, इन्द्रियाणां ज्ञानजनकत्वं संभवति इत्यङ्गीकृतम् । तत्र यत् प्रमाणं तदेवात्रापीति भावः ॥
न सङ्गृहीतमिति । सूत्रे ' घ्राणरसनचक्षुस्त्वक्छ्रोग्राणि भूतेभ्यः' इति कथनात् एभिरिन्द्रियैः सुखादेरग्रहणात् 'इन्द्रियार्थसन्निकर्षजन्यस्वं ' सुख5 करणे - ख.
' स्य क. त्-क. 3 अर्थ:- ख. + दुर्गमौ - ख.
NYAYAMANJARI
B