________________
आह्निकम् २] सन्निकर्षनिरूपणम्
191 सामान्यानि, येषां सर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं तेऽर्थाः। प्रागुक्तश्चाभावोऽप्यर्थ एव ; विचार्य गम्यमानत्वात ॥
[सत्रिकर्षभेदः] सन्निकर्षस्त्विन्द्रियाणामर्थैः सह पट्यकारः। तत्र द्रव्यं चक्षुषा त्वगिन्द्रियेण वा संयोगात् गृह्यत । तद्तो रूपानिर्गुणः संयुक्तसमवायात्। रूपत्वादिसामान्यानि संयुक्तसमवेतसमवायात् गृह्यन्ते। चक्षुण संयुक्तं द्रव्यं, तत्र समवेतं रूपं, रूपे च समवेतं रूपत्वमिति। समवायाच्छन्दो गृह्यत। श्रोत्रमाकाशद्रव्यम, तत्र समवेतः शब्दः । शब्दत्वं समवेतसमवायात गृह्यते; श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति । संयुन विशेषणभावाभावग्रहणं व्याख्यातम् (पु. १५०)। इह घटो नास्त लिचक्षुषा संयुक्तो भूप्रदेशः, तद्विशेषणीभूनश्चाभाव इति ॥
_[सत्रिकर्षसत्वे प्रमाणम् ] ननु ! सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ग्रमः । यदि ह्यसनिकृष्टमपि चक्षरादीन्द्रियं अर्थ गृह्णीयात् ; व्यवहितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते ; तस्मादस्ति सन्निः पः॥
: भग्यवधानमात्रं न प्रत्यक्षप्रयोजकम् ] ननु! अव्यवधानमेवास्तु, किं सन्निकर्षण?--मैवम्द्रव्याणकर्मवृत्तीनि । स्पर्शनेन-वगिन्द्रियेण । विचार्य गम्यमानत्यादिति-घटोऽस्ति न वेति संशये निर्णयार्थ प्रवर्तमानः घटं तदभावं वा निश्चिनोति । अत्र यथा घटः पदार्थः, तथा घटाभावोऽपि पदार्थ एवेत्यर्थः ॥
आकाशद्रव्यं-आकाशरूपं द्रव्यम् । एवं 'श्रोत्राकाश' इत्यत्रापि ॥
ध्यवहितानुपलब्धिः-कुडयादिग्यवहितवस्स्वनुपलब्धिः। सन्निकर्षाभावे कुड्यग्यवहितस्याप्युपलब्धिप्रसंगः । व्यवहितः-कुड्यादिनेति शेषः ॥
मनु तर्हि अग्यवधानमेव प्रत्यक्षस्वप्रयोजकं करुप्यतां, किं सन्निकण ? न च कुड्यादिव्यवधानाभावेऽपि चक्षुर्निमीलनदशायां प्रत्यक्षापत्तिरिति शङ्कयम् ; पक्ष्मचर्मण एव तत्र व्यवधानत्वात् इति शङ्कते-नम्विति। चक्षुरुन्मीलनदशायां अनवधानात् प्रत्यक्षामावस्तु मतदमेऽपि समान इति भावः ।