________________
190
प्रत्यक्षलक्षणघटकदलकश्यम्
[ न्यायमञ्जरी
नैतदेवम् - इन्द्रियेण स्वविषयसन्निकृष्टेन सता तत्रैव यद्विज्ञानमुत्पद्यते तत् इन्द्रियार्थसन्निकर्षोत्पन्नमिह ग्रूमहे । न चेहरामिन्द्रियगत्यनुमानम् ॥
कुतो विशेषप्रतिलम्भ इति चेत् उत्पन्नग्रहणादिति ब्रूमः । उत्पन्नग्रहणेन हि सन्निकर्षस्य कारकत्वं ख्याप्यते । तच्चापीन्द्रियforest ज्ञानमुलादयतो निर्वहति । इन्द्रियगत्यनुमाने तु न सनिक कारकमाहुः, अपि तु ज्ञापकम् । अत एव स्वग्रहणसापेक्षः तदनुमने व्यप्रियते, न रूपादिप्रमिता 'विव तम्निरपेक्ष इति ॥
[इन्द्रियार्थपदविवरणम् ]
इन्द्रियाणि घ्राणरसननयनस्पर्शन श्रोत्राणि पृथिव्यादिभूतपञ्चकप्रकृतीनि वक्ष्यन्ते ( ८ अ ह्निके)। अर्थास्तु गन्धरूपरसस्पर्शशब्दाः " गन्धत्वादिस्वजात्यवच्छिन्नाः, तदधिकरणानि पृथिव्यतेजांसि द्रव्याणि, तदधिष्ठानाः सङ्ख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणि तद्वृत्तीनि
इन्द्रियार्थसन्निकर्ष एव हेतुरिति लिङ्गविधया इन्द्रियार्थसन्निकर्षजन्यत्वं एतदनुमाने वर्तत इत्यर्थः । तत्रैवेति । यत्र इन्द्रियं संयुक्तं, तद्विषयकं ज्ञानं अन विवक्षितम् । उक्तानुमाने तु इन्द्रियार्थयोः सन्निकर्षेण इन्द्रियगतेरनुमानं न तु सन्निकर्षविषयस्येति । तथा च इन्द्रियार्थसन्निकर्षनिष्ठकारणतानिरूपितं यत् स्वविषयविषयक निष्टं कार्यस्वं तद्वदित्यर्थः ॥
विशेषेति । कार्यताविशेष इत्यर्थः । इन्द्रियार्थसन्निकर्षनिष्ठकारणतानिरूपित कार्यतादिति सामान्यतोऽर्थस्तत्पदाद्भवति । तत् कथं कार्यंतायां इन्द्रियविषयविषय कनिष्टत्वं लभ्यते ? इति शङ्क शयः । ख्याप्यत इति । उत्पत्तिशब्दस्य तादृशकार्य एव मुख्यत्वात् । ज्ञापकमिति । हेतुः द्विविधः कारकः, ज्ञापत्रश्च । आद्यः मुख्यः, दण्डात् घटः इत्यादौ । द्वितीयः गौणः, धूमात् वह्निमान् इत्यादौ । एवञ्च इन्द्रियार्थसन्निकर्षस्य मुख्यं हेतुत्वं कारकत्वरूपं स्वतः प्राप्तमिति । अत एव ज्ञापकत्वादेव । असौ - इंन्द्रियार्थसन्निकर्षः ॥
भूतपञ्चक प्रकृतीनि भूतपञ्चकसमवायिकारणकानि । अर्था - इन्द्रियविषयाः । पृथिव्यतेजांसीति । वायो: स्पर्शानुमेयत्वादेवमुक्तिः । तद्वृत्तीनि
1
1 विवेतरनि- ख.
2
ग्द- ख.