________________
188
प्रत्यक्षलक्षणम्
न्यायमरी
ननु ! सस्वपि चक्षुरादिषु विषयज्ञान'मनु'पजनयत्सु न करण व्यपदिशति लोकः, जनयत्सु च व्यपदिशतीति लोके करणो. त्पादकत्वादेव तेषां कर णत्वव्यपदेशः, न साक्षात् करणत्वादिति - तदयुक्तम्-चक्षुराद्येव करणं, न तु तेनान्यत् करणमुपजन्यते। किं हि तदन्यत् करणम् ? ज्ञानमिति चेत्-कस्यां क्रियायां तत् करणनिति परीक्ष्यतामेतत् । न ह्यात्मन्येव किञ्चित्करणं करणं भवतीति॥ ___यतु ज्ञान मनुजनयति चक्षुगदौन करणतामाचष्टे लोकःनयुक्त मेव । न हि क्रियोत्पत्तावच्यारियमाणं करणं कारकं भवति । तेन चक्षुरादेनिक्रियामुपजनयतः करणत्वम, ज्ञानस्य तु फलवमेवेति युक्तस्तथा व्यपदेशः॥
प्रमाणम्य प्रमाणत्वं तस्मादभ्युपगच्छताम् ।
भिन्नं फलमुपेतव्यं एक त्वे' तदसंभवात् ॥ ७ ॥ ननु 'चक्षुषा पश्यामि' इति व्यवहार: घटाद्यनुभववेलायामेव । अतश्च चक्षुष करण घटादिदर्शनाधीनं जातमित्यौपाधिकमेव चक्षुरादः करणस्वमिति शङ्कने... नन्विति । यद्यपि ज्ञानजनकत्वकृतं चक्षुरादेः करणत्वं ज्ञानशेवत्वात् ज्ञानाधीनं, तथापि नेदमौपाधिकम् । साधनं हि स्वत: साध्य. शंषभूतम् । दण्डादीनामपि हि घटकरणत्वं घटाधीनमेव, न तावता दण्डादेः करणवोव औपाधि मिति वक्तु श इयाशयवान् समाधत्ते -तदयुकमिति न हाति। करणं किञ्चित् आत्मन्येव न हि करणं भवति इत्यन्वयः । अनुमितिदृष्टया करणभूतमपि लिङ्गज्ञानादिकं चक्षुरादिदृष्टया न करणं भवति, अपि तु चक्षुषः फलमेव धूमः शनम् । अत: स्वस्मिन् स्वं करणं न भवस्येवेत्यर्थः ॥
ननु तर्हि ज्ञानमजन पन: चक्षुरादेः काणत्वं न स्यात् । कार्यजनक हि करणमिति शङ्कामिष्टापत्या परिहरति-यत्त्वित्यादि । पाकक्रियां वर्वति रूति पाचक ऽयमिति व्यवहारः इतरकाले तथा व्यवहारस्तु उपलक्षणतशा, स्वरूपयोग्यतया वा नेय इति भवः ॥
'मु-क.
'मुप-क., म-ख.
स्य-ख.
'वं-क.