________________
186
प्रत्यक्षलक्षणम्
[न्यायमञ्जरी द्विषयः? तदस्त्येवैकविषयत्वम्। यद्विषयं हि दर्शनम्, स एव चक्षुरादेः करणस्य विषयः। आश्रयोऽस्त्वधिकरणमिति बौद्धगृहे तावदवाचको ग्रन्थः। क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् ॥
___ अस्मत्पक्षे तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयो. दृष्टः। तथा चक्षुर्मानयोरपि भविष्यतीति । क्वचित्त भिन्न योरपि ज्ञानयोः फ'ल'करणत्वेन स्थितयोः लिङ्गलिङ्गिज्ञानयोरिव विशेषण विशष्यज्ञानयोरिव चैकात्म्याश्रयत्वमस्ति। न त्वनेन समानाश्रयस्वेन प्रयोजनम, चक्षुरादाव नर्वहणात् ॥
__ अथ एकफलनिष्पत्ती व्यापार'समानाश्रयत्वमुच्यते, तदपि भवतु कार कान्तराणां ; न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्ती व्यापारः संभवति ॥
यदपि सव्यापारप्रतीनित्वादित्युच्यते तदपि प्रमाणफलयोनितामेव सूचयति। न हि स्वरूपनिष्पत्तो' सव्यापारत्वमुपपयते ; अपि तु पृथग्भूतफलनि वृत्तावेवेति ॥ इन्द्रियस्य ज्ञानस्य च एकविषयत्वात् । न द्वितीयः, बौद्धमते उभयाश्रयस्य एकस्य वस्तुनः अनङ्गीकारात् इति ॥
ननु व्यधिकरणयोः प्रमाप्रमाणयोर्वा साध्यसाधनभावः यथमित्यत्राह--- अस्मत्पक्ष विति । एत मिन्नाश्रययो: साध्यसाधनभावमुक्ता भिन्नविषययो समानाश्रययोरपि तमाह-कनिदिति। एकात्म्येति । एकात्मवृत्तिस्वमिति यावत् । किन्तु एतादृशं समानाश्रयत्वं निरुपयोगीत्याह-- न त्वननेतिः। चक्षुरादापिति। मिन्नाधिकरणकयोः चक्षुर्दर्शनयोः साधनसाध्यभावदर्शनादित्यर्थः॥
व्यापारममानाश्रयत्वमिति। चक्षुर्दर्शनयोः भिन्नाधिकरणत्वेऽपि तयोर्व्यापारस्य विषये समानत्वात तस्कृतं सामानाधिकरण्यमस्त्येव। दर्शनस्य तु विषयत्वं सम्बन्धः, चक्षुषस्तु संयोगस्सम्बन्ध इति विशेषः ॥
भिन्नतामेवेति । - सव्यापारस्वनिर्व्यापारत्ववैलक्षण्यस्य भवतैवोक्त. स्वादित्यःशयः॥
1ला-क.
:-ख.
निघतौ-ख. , -क.