________________
181
प्रत्यक्षलक्षणम्
[सर्वत्र सुखसाधनत्वं न मानसं भवितुमर्हति ]
ननु च ! सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणं, तर्हि तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयोऽस्तु, किं तज्जातीयत्व लिङ्गापेक्षणेनेति - मैत्रम् - शब्द लिङ्गेन्द्रियाद्युपरतौ केवलमन्तःकरणं करणं कल्प्यते, परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् । लिङ्गाद्युपायान्तरसंभवे तु यदि मन एव केवलं कारणमुच्यते तन्मानसमेवैकं प्रमाणं स्यात्, न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन ॥
तस्मात् सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं ज्ञानं तत् उदेयादिज्ञानफलनिति भाष्यकृतश्चेतसि स्थितम् । सुखसाधनत्वज्ञान मेवोपादेयादिज्ञानमित्युक्तम् ॥
[ न्यायमञ्जरी
[प्रमाण- फल योरभेदवादिमतम् ]
आह- किमर्थमयमीदृशः क्लेश आश्रीयते ? प्रमाणादभिन्नमेव फलमस्तु ! तदेव चक्षुरादिजनितं कपित्थादिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवाभातीति करणमुच्यताम्, तदेव विषयानु भवस्वभावत्वात् फलमिति कथ्यताम् । इत्थं च प्रमाणफले न भिन्नाधिकरणे भविष्यतः, अन्यत्र प्रमाणं, अन्यत्र फलमिति । तदुक्तम् (प्रमाणसमुच्चये—९)—
'सव्यापारप्रतीतित्वात् प्रमाणं फलमेव सत्' इति ॥
प्रवर्तत इति न वक्तुं शक्यम्, घटादिविषयक स्मरणादीनामनुपपत्तेः । अत: प्राथमिकग्रहणमेव केवलेन मनसा न संभवतीति वक्तव्यमिति प्रकृते न दोष इति ॥
व्यवहारकाले -- हानोपादानादिव्यवहारकाले । गत्यन्तरासंभव एवायं न्याय इत्याह- मैवमिति । इन्द्रियादीत्यादिना उपमानपरिग्रहः ॥
उपादेयादिज्ञानं : -- उपादेयत्व - हेयत्वप्रकारकज्ञानम् ॥
दिङ्नागोक्तमनुवदति – आहेति । ननु प्रमाणं च सिद्धरूपं फलं तु साध्यस्वरूपम् । तदुभयमेकं कथं भवेत् ? इत्यत्राह - तदेवेति । अस्य दर्शनमित्यनेनान्वयः । विषयमुखतः दर्शनं करणं, स्वरूपतस्तु फलं भवतीत्यर्थः । सव्यापारेति । 'प्रमाणत्वोपचारस्तु निर्व्यापारे न विद्यते '