________________
182
प्रत्यक्षलक्षणम्
[ न्यायमञ्जरी
दर्शनवत् । अतः सम्बन्ध' ग्रहणकाल 'भाविनं सुखसाधनत्वनिश्चयं चेतसि विधाय भाष्यकार स्तत्फलत्वं' प्रत्यक्षज्ञानस्य वर्णितवः न् इति ॥
[प्रत्यक्षेण सुखमाधनत्वनिश्वयाक्षेपः, समाधानं च]
ननु ! सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात् कथं प्रत्यक्षगम्यता ? तज्जातीयत्वाल्लिङ्गादेव तदाऽपि तद्गुहणे इष्यमाणे ततः पुनः सम्बन्धग्रहणादनवस्था । सुखादेव कार्यात् तदा तदवगम इति चेत्, तदाऽपि नाज्ञातसम्बन्धमवगतिजननसमर्थमिति तत्संबन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षस्याक्षमत्वात् अनुमानान्तरापेक्षायामनवस्था तदवस्था - उच्यते-न खल्वतीन्द्रिया शक्तिः अस्माभिरुपगम्यते । यया सह न कार्यस्य सम्बन्धज्ञान संभवः ॥ ५ ॥
स्वरूप सहकारिसन्निधानमेव शक्तिः, सा च सुगमैव ॥
+
[ सिद्धान्ते शक्तेरैन्द्रियकत्वसंभवः ]
ननु ! सहकारिणां मध्ये अदृष्टमप्यनुप्रविष्टम् । न च तत् प्रत्यक्षगस्यम अतीन्द्रियत्वाद्धर्मस्येति साऽपन सुरंगमा शक्तिः-नैतत् - 'न धर्मादि शक्तित्वादतीन्द्रियम; अपि तु तत् नैसर्गिकमेव । जग हैचित्र्येण तदनुमानं वक्ष्यामः । तदेवं तदितरसहकारिस्वरूप
गृहीतव्याप्तिस्यैव पर्वतादौ वह्नयनुमितिसंभवः । यदि व्याप्तिग्रहणमप्यनुमानात् तर्ह्यनवस्था । अतः यत्रकुत्रचित् सुखसाधनत्वं प्रत्यक्षेण गृह्यत एवेत वक्तव्यम् । तदभिप्रायेण भाष्यं प्रवृत्तमिति ॥
व्याप्तयाख्यसम्बन्धग्रहणकालेऽपि यद्यनुमानादेव सम्बन्धग्रहणं, तर्ह्यनवस्थेति दूषणं न युक्तम्, यतः प्रत्यक्षेण सम्बन्धग्रहणमेव न संभवतीति शङ्कते - नन्विति । तदापि सम्बन्धग्रहणकालेऽपि । ननु तज्जानीयत्वाल्लिङ्गान्न सुखसाधनत्वशक्त्यनुमानं, किन्तु सुखरूपकार्यादेव तत्कारणभूतशक्तेरनुमानं घूम इति शङ्कते - सुखादेवेति । अक्षमत्वात् - शक्तेरतीन्द्रियत्वेनेति शेषः ॥ साऽपि - अनतिरिक्ताऽपि । अस्य शक्तिरित्यत्रान्वयः । तदितरेति । अदृष्टादिकं कार्यसामान्यकारणम् । न तस्य प्रत्येकानुमानेन कारणत्वं ग्राह्यम्, ध-क.
3 सु-क.
' काल - क.
2
स्तत्फलं - ख.