________________
आह्निकम् २] मुखसाधनत्वमपि प्रत्यक्षेणैव गृह्यो
181 सती सुखसाधनत्व निश्चयजन्मनि न व्याप्रियेतेति। न च धूम. लिङ्गानुमितवजिज्ञानानन्तरं धूमस्मरणमुचितम्, अनलमुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोकः, न धूममिति ।
तेनानुमानविपये परामोऽतिदुर्घटः । प्रत्यक्षविषयेऽप्येवं, किमनेन शिखण्डिना?॥४॥
[उपनयवाक्यस्य सार्थक्यम् यत्पुनः-उपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यत इति परिचोदितम्---तत् - अवविप्रसङ्ग एव (१० भाति के) निरूपयिष्यामः। तस्मादन्तरावर्तिनः परामर्शज्ञानस्याभावात् आद्यमालोचनाज्ञानमेव हेयादिज्ञानफलं यथोकरीत्या भविष्यतीति ॥
• [सुखपाधनत्वनिश्चयः प्रत्यक्षरूपोऽपि भवत्येव ननु च! प्रत्यक्षफलमिह मीमांस्यं वर्तते, स चायं सुखसाधनस्वाल्लिङ्गादुद्गम्यमानः आनुमानिक इते न प्रत्यक्षफलतामवलम्बतेसत्यमेतत्-किन्तु सम्बन्धग्रहणसमये सुखसाधनवनिश्चयः प्रत्यक्ष जनितोऽपि समस्ति, यतोऽनुमान प्रवर्तते ; महानसादौ धूमाग्निनिश्चयजन्मनि --निश्चयोत्यत्तौ। वस्तुरस्तु वह्निनिश्चयानन्तरं पुनः धूमस्मरणकल्पनमध्ययुक्तमित्याह-न चेति । उपसंहरति-तेनेति। एवमिति । अनुमानस्थले मध्ये परामर्शमन्तराऽपि प्रवृत्तिनिर्वाहे प्रत्यक्षलेऽपि किं परामर्शकल्पनयेति भावः । शिखण्डिना-नपकेन-प्रयोजनरहितेनेति यावत् । परामर्शेगेति शेषः॥
अप्रयोज्यं-प्रयोक्तुननर्हम् ॥
ननु अनुमानस्थले यथा तथा वाऽस्तु, प्रत्यक्षे तु न तथा वक्तुं शक्यमिति शकते.- नन्विति । प्रत्यक्षस्य फलमिनि विग्रहः। न हि सु वसाधनत्वं प्रत्यक्षग्राह्यो धर्मः। प्रतिपुरुषं सुखस्य वैचित्र्येण, तस्य वस्तुधर्मस्वासंभवात् । अतः पूर्व तजातीयं वस्तु सुखसाधनत्वेनानुभूय तजातीयत्वलिङ्गात खलु पुरोवर्तिनि सुखसाधनत्वं निश्चिनोति । अतस्तत्र परामर्शादिकमावश्यकमेवेति शङ्काशयः। सत्यमिति। अयमाशयः--कुत्रचित् प्रत्यक्षस्थलेऽनुमानात्सुखसाधनस्वनिश्च येऽपि सर्वत्राप्येवमिति न निर्बन्धः । अन्यथा तादृशानुमितिहेतुभूतस्य व्याप्तिग्रहणस्यैव दुर्घटत्वात् । महानसादौ प्रत्यक्षतः