________________
180
प्रत्यक्षलक्षणम्
न्यायमजरी
[परामर्शस्य अवसरोऽपि नास्ति। अथ मन्यसे 'न तदानीं' पुनधूमज्ञानव्याप्तिस्मरणतत्परामर्शीस्दादिज्ञानशृङ्खलाऽभ्युपेयते, किन्तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनत्वानुस्मरणानन्तरं स्मरिष्यते ; तेन स्मृति विषयवर्तिना सता 'तथा चायनिजातीयः' इति ज्वलनपरामर्शो जनयिष्यते इति-एतदप्ययुक्त - अग्निशानानन्तरं युगपत्स्मरण- . द्वयोदयप्रसङ्गात्-तदैव सुखसाधनताऽनुस्मृतिः, तदैव धूमपरामर्शस्मृतिरिति । न हि क्रमोत्पादे किञ्चित्कारणमस्ति। ज्ञानयोगपधं च शास्त्रे प्रतिषिद्धम् ॥
[परामर्शस्य दुर्घटता भवतु वा क्रमोत्पादः; तथाऽपि स्मरणद्वयसमनन्तरमुपजायमानः पावकपरामों नोपलभ्यानुवादेन जायते। क्रमाक्षेऽपि च वह्निशानानन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्व भवेत् , ततो धूमपरामर्शस्मरणम्, तेन तस्य विनश्यत्ता, ततोऽग्मै तजातीयत्वपरामर्शः, तेन सुखसाधनत्वस्मृतर्विनाश एवेति पुनरपि सा विनष्टा
स्मृतिविषयवर्तिनेति । सुखसाधनस्वाकारविशिष्टेन चेत्यर्थः। स्मरणद्वयमित्युक्तं ; किं तत् द्वयम् ? इत्यत्राह-तदैवेति ! अग्निज्ञानानन्तरक्षण एवेत्यर्थः। अस्तु तर्हि क्रमेणैव स्मरण-गोत्पत्तिरित्यत्राह - न हीत्यादि । अग्निज्ञानानन्तरक्षणे सुखसाधनत्वस्मृतिस्तु सम्मत एव, धूमपरामर्शसंस्कारस्य सत्वेन धूमपरामर्शस्मृतिरपि तदैव भवेदिति कथं क्रमः नियम्यत इति। ननु भस्तु योगपद्यं स्मृतिद्वयस्येत्यवाह--शानेति। एतत्तत्वं च मनःप्रकरणे स्पष्टीभविष्यति ॥ __ननु संस्कारस्य सस्वमात्रान्न स्मरणोत्पत्तिः ; किन्तु उद्योधकसमवधानादेव । मदृष्टादीनामप्युद्धोधककोटिप्रविष्टत्वेन तत्समवधानाऽपमवधाने कार्यानुमेये इति शङ्कायामाह-भवतु वेति। उपलभ्येति । अनुमितवहिव्यक्तयन्तभावेने. स्यर्थः। पूर्व भवेदिति । अनलार्थिनः खलु धूमदर्शनात् वयनुमितिः । तस्य च प्रथमं सुखसाधनत्वस्मरणमेव जायेत। एवञ्च न प्रकृतेष्टसिद्धिरिति ।
नेदानी-क.
'दित-क.