________________
आह्निकम् २] प्रत्यक्षस्यैव साक्षात् प्रवृत्तिनिवृत्तिहेतुत्वम् 179 धूमाख्याल्लिङ्गादेव स उत्पद्यत इति चेत्-न-लिङ्गस्य परामर्शाविषयीकृत स्यानुमेयमितिजनननैपुण्यानभ्युग्गमात् । धूमावमर्शस्य तदानीमतिक्रान्तत्वात् । तथा हि-प्रथमं लिङ्गज्ञानं, ततो व्याप्तिस्मरणम् , ततो धूमपरामर्शः, ततो वह्निज्ञानम, तेन धूमपरामर्शस्य विनश्यत्ता, ततोऽग्नौ सुखसाधनत्वानुस्मरणम् । तदा च धूमपरामर्शस्य विनाश एवेति तस्मिन् विनटे न केवलो धूमस्तदानीमनलपरामर्श जनयितुमुत्सहते॥
अग्नौ र खसाधनत्यानुस्मरणानन्तरं पुनः धूमज्ञानं इन्द्रियादुत्पद्यत इति चेत्--मैवम् -- अननुभवात् । भवतु वा धूमज्ञानम् , तथाऽपि धूमज्ञानानन्तरं पुनातिस्मृतिः, पुनः धूमपरामर्शश्चावश्यं भवेत्, इत्यत्रान्तरे हुतभुजि सुखसाधनत्वानुस्मृतिरतिक्रान्नेति तत्सहायपरामर्शजन्य सुखसाधनत्व निश्चयोत्पादो न स्यात् । सुखसाधनत्वानुस्मरणेन हि विनश्यवस्थेन जन्यमानः प्रत्यक्षविषयोऽसौ दृष्ट इति ॥
धूमेति। लिङ्गस्य --लिङ्गस्वरूपस्य । अनभ्युपगमात् । परामृश्यमान. लिङ्गस्यवानुमितिकरणत्वात् इत्यर्थः। ननु प्रथममेव परामर्शस्य निष्पन्नत्वेन पररामृश्यमानं लिङ्गमस्त्येवेति का हानिरित्यत्राह--धूमाघमर्शस्येति। तदा-- सुखसाधनत्वानुस्मरणकाले। केवलः- परामर्शाविषयः। अनलपरामर्श'तथा चायं ज्वलनजातीयः' इति परामर्श उपादेयत्वहेतुभूतम् ॥
ननु पूर्वधूमज्ञानस्य नारोऽपि ज्ञानान्तरं कल्प्यत इति शङ्कतेअग्नाविति। इन्द्रियादिति। न हि स्मरणस्य मध्ये संभवः, तस्योदोधकाद्यपेक्षत्वादि त्याशयः । अननुभवात् पुनः ज्ञानान्तरस्याननुभवात् । ननु फलबलेन कल्प्यताम् , अनुभवस्त्वतिसूक्ष्मः विना शपथं न हि निरसितुं शक्य इत्यत्राइ-भवतु वेति । व्याप्तिस्मृतिरिति । सुखसाधनत्वाकार. विशिष्टवह्निव्याप्तिस्मृतिरित्यर्थः । अतिक्रान्ते त-सुखसाधनत्वानुस्मृत्यनन्तरं खलु पुनः धूमज्ञानादिपरंपरा कल्पितेति परामर्शकाले तादृशानुस्मृतिनाशोऽनिवार्य एवेति भावः ॥
1 मशिन-ख.
न्या-ग.
ये-ख.