________________
आह्निकम २] प्रत्यक्षस्य प्रवृत्तिनिवृत्तिहेतुत्वे मतभेदः 177 तदेव साध्यं दर्शितम्। इन्द्रियार्थसन्निकर्षजनितमुपादेयताज्ञानफलकं अवकल्पते-इति' किमसंवेद्यमान ज्ञानकन्था कल्पनेनेति ॥
ननु ! परामर्शोऽनुभूयत एव, न तु कल्प्यते। धूमज्ञानानन्तरमविनाभावं यत्र धूमस्तत्राग्निः' इत्यनुस्मृत्य परामृशत 'तथा चायं धूमः' इति । असति तु परामर्शे न लिङ्गज्ञानं लिगिनि प्रमाणतां प्रतिपद्येत ; स्मरणजनकं हि तत् । न च स्मृतिजनकं प्रमाण मिष्यते । स्मरणानन्तरं च लिङ्गप्रतीतिर्भवन्ती नोपलभ्यानुवादेन भवेत्'अयमग्निमान्' इति ॥
अपि च तथा व कृतकः शब्दः' इति यत् उपनयवचनमवय. वेषु पठ्यते, तस्य किं वाच्यं भविष्यति परामर्शापलापवादिनाम् । स्वप्रतिपत्तियच्च पर प्रतिपत्तिरवयवर्जन्यते इति वक्ष्यामः। तस्मादप्रत्याख्येयः परामर्श इति ॥
कल्पनायां खलु दोषः । अनुभवात् सिद्धौ न वयं अपराधिन इत्याशयवान् शकते-नन्विति। कुतः प्रमाणतां न प्रतिपद्यतेत्यत्र हेतुः-स्मरणजनकमिति । तत्-लिङ्गज्ञानम् । लिङ्गज्ञानं हि 'एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम् ' इतिरीत्या स्वव्यापकत्वरूपसम्बन्धिनः वः स्मृतिजनक सत् व्याप्तिस्मृतिजनकम् । स्मृतिजनकं च लिङ्गज्ञानं न प्रमाणं भवितुमर्हति, भनुभवजनकस्यैव प्रमाणत्वात्। विवेचितं चैतत् पूर्वमेव । अतः पूर्वोत्पनं लिङ्गज्ञानं न प्रमाणम्। किन्तु व्याप्तिस्मरणानन्तरमेव लिङ्गस्य प्रतीतिः कल्पनीया। सैव लिङ्गपरामर्श इत्युच्यत इति मध्ये परामर्शकल्पनमावश्यकमेवेति । उपलभ्येति। लिङ्गप्रतीति: 'अयमग्निमान्' इतिरीत्या अनुमेयं वस्तु पूर्वमेव प्रदर्शयन्ती न भवेत्, किन्तु 'वद्विजातीयव्याप्यधूमजातीयवानयं' इत्येवं भवेत् । न च तावता प्रकृतेष्टसिद्धि रिति भावः ॥
ननु परार्थानुमानमिदमुच्यते भाद्भिः । वयं तु स्वार्थानुमाने ब्रूमः इति चेत् तत्राह-स्वप्रतिपत्तिवच्चेति ॥
'इति-ख. (पूर्वपुटात) ज्ञान-क. मशानम्-ख. 'परा-ख.
NYAYAMANJARI
12