________________
176 प्रमालक्षणम्
[म्यायमचरी ____ यद्यपि न काचिदतीन्द्रिया शक्तिरस्मन्मते विद्यते; तथाऽपि स्वरूपसहकार्यादिप्राइष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्यमतीन्द्रियमेव ॥ ___तम्मा करिथादि जातीयोऽर्थः सुखसाधन मिति वह्निम-पर्वत. प्रती वत् नजातीयलिङ्गकमानुमानिकमिदं ज्ञानम तदिदमनुमानफलमपि सुखसाधनत्व निश्चयात्मकं ज्ञानं इन्द्रिय विषये कपित्थादा. . वुपादेयज्ञानं इन्द्रियार्थसन्निकर्षेण सह जनयत् प्रत्यक्षं प्रमाणं भवति। . तदेव च हृदि व्यवस्थाप्य भाष्यकृत् बभाषे– 'यदा ज्ञानं वृत्तिः तदा हानो पादानोपेक्षा'बुद्धय. प्रमि तः' इति ॥
[आलोचनाज्ञान मुख्य प्रमाणमेव] व्याख्यातारस्तु ध्रुवने-नायमीदृशो ज्ञानानां क्रमः; आद्यमालोचनाज्ञान सुखमाधनत्वानुस्मृति उपजनयतीति-सत्यम् .. स्मृत्या च तस्य निश्यत्ता ; विनश्यदवस्थ चेन्द्रियविषये कवित्थादौ सुख माधनत्वनिश्चयमादधाति, सुखमाधनत्वज्ञानमेव चोपादेयताज्ञानमुच्यते, नान्यत् । परामर्शस्तु न कश्चिदन्तराले 'संवेद्यते ।
ननु कथं सुम्बसाधनसामर्थ्य भवन्त्रतेऽनुमेयम् ? अतीन्द्रियस्य शक्त्यपरपर्यायस्य सामर्थ्यस्यानभ्युपगमादिति आशङ्कय समाधत्ते- यद्यपीत्यादि । अतीन्द्रियधर्माधर्मादिघटितत्वात् सामग्र्या. अतीन्द्रियमेव सामर्थ्यमित्यर्थः ॥
ननु तर्हि प्रवृत्तिहेतु: अनुमानमेवेति प्रत्यक्षस्य प्रवृत्तिहेतुत्वं न सिद्धमेवेत्यत्राह-त.ददमिति। अस्य ज्ञानेऽन्वयः । इन्द्रयविषय इति इदं ममोपादेयमिति हि उपादयताज्ञानं ; तच्च प्रत्यक्षकपित्थविषयमेवेति इन्द्रियार्थसन्निकर्षापेक्षा वर्तत एवे त हानोपादानयोः इन्द्रियं प्रमाणं भवत्येवेति । बभाष इति। प्रमाणविभागसूत्र इति शेषः। वृत्तिः व्यापारः ॥
स्मृत्या - सुखसाधनत्वानुस्मृत्या। तस्य - आलोचनाज्ञानस्य । विनश्यत्ता योग्यविभुविशेषगुणानां स्वोत्तर पन्नगुणनाइयत्वनियमादित्यर्थः । पर:मर्शः–'सोऽय कपित्थजातीयः' इत्येवंरूपः पूर्वोक्तः। अन्तरालेआलोचनाज्ञान-उपादेयताज्ञानयोर्मध्ये ॥
1पेक्षे-च.